६. भीष्मपर्व
६.४१.१संजय उवाच

६.४१.२ततो धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम्
पुनरेव महानादं व्यसृजन्त महारथाः

६.४१.३पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः
दध्मुश्च मुदिताः शङ्खान्वीराः सागरसंभवान्

६.४१.४ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः
सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत्

६.४१.५अथ देवाः सगन्धर्वाः पितरश्च जनेश्वर
सिद्धचारणसंघाश्च समीयुस्ते दिदृक्षया

६.४१.६ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम्
समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत्

६.४१.७ततो युधिष्ठिरो दृष्ट्वा युद्धाय सुसमुद्यते
ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप

६.४१.८विमुच्य कवचं वीरो निक्षिप्य च वरायुधम्
अवरुह्य रथात्तूर्णं पद्भ्यामेव कृताञ्जलिः

६.४१.९पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः
वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम्

६.४१.१०तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनंजयः
अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात्

६.४१.११वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम ह
यथामुख्याश्च राजानस्तमन्वाजग्मुरुत्सुकाः

६.४१.१२अर्जुन उवाच

६.४१.१३किं ते व्यवसितं राजन्यदस्मानपहाय वै
पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम्

६.४१.१४भीमसेन उवाच

६.४१.१५क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः
दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव

६.४१.१६नकुल उवाच

६.४१.१७एवंगते त्वयि ज्येष्ठे मम भ्रातरि भारत
भीर्मे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु

६.४१.१८सहदेव उवाच

६.४१.१९अस्मिन्रणसमूहे वै वर्तमाने महाभये
योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखो नृप

६.४१.२०संजय उवाच

६.४१.२१एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दन
नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः

६.४१.२२तानुवाच महाप्राज्ञो वासुदेवो महामनाः
अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव

६.४१.२३एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च
अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः

६.४१.२४श्रूयते हि पुराकल्पे गुरूनननुमान्य यः
युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः

६.४१.२५अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः
ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम

६.४१.२६एवं ब्रुवति कृष्णे तु धार्तराष्ट्रचमूं प्रति
हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन्

६.४१.२७दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः
मिथः संकथयां चक्रुर्नेशोऽस्ति कुलपांसनः

६.४१.२८व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकात्
युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः

६.४१.२९धनंजये कथं नाथे पाण्डवे च वृकोदरे
नकुले सहदेवे च भीतोऽभ्येति च पाण्डवः

६.४१.३०न नूनं क्षत्रियकुले जातः संप्रथिते भुवि
यथास्य हृदयं भीतमल्पसत्त्वस्य संयुगे

६.४१.३१ततस्ते क्षत्रियाः सर्वे प्रशंसन्ति स्म कौरवान्
हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक्

६.४१.३२व्यनिन्दन्त ततः सर्वे योधास्तत्र विशां पते
युधिष्ठिरं ससोदर्यं सहितं केशवेन ह

६.४१.३३ततस्तत्कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम्
निःशब्दमभवत्तूर्णं पुनरेव विशां पते

६.४१.३४किं नु वक्ष्यति राजासौ किं भीष्मः प्रतिवक्ष्यति
किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति

६.४१.३५विवक्षितं किमस्येति संशयः सुमहानभूत्
उभयोः सेनयो राजन्युधिष्ठिरकृते तदा

६.४१.३६स विगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम्
भीष्ममेवाभ्ययात्तूर्णं भ्रातृभिः परिवारितः

६.४१.३७तमुवाच ततः पादौ कराभ्यां पीड्य पाण्डवः
भीष्मं शांतनवं राजा युद्धाय समुपस्थितम्

६.४१.३८युधिष्ठिर उवाच

६.४१.३९आमन्त्रये त्वां दुर्धर्ष योत्स्ये तात त्वया सह
अनुजानीहि मां तात आशिषश्च प्रयोजय

६.४१.४०भीष्म उवाच

६.४१.४१यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते
शपेयं त्वां महाराज पराभावाय भारत

६.४१.४२प्रीतोऽस्मि पुत्र युध्यस्व जयमाप्नुहि पाण्डव
यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे

६.४१.४३व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि
एवं गते महाराज न तवास्ति पराजयः

६.४१.४४अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः

६.४१.४५अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन
हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि

६.४१.४६युधिष्ठिर उवाच

६.४१.४७मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः
युध्यस्व कौरवस्यार्थे ममैष सततं वरः

६.४१.४८भीष्म उवाच

६.४१.४९राजन्किमत्र साह्यं ते करोमि कुरुनन्दन
कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम्

६.४१.५०युधिष्ठिर उवाच

६.४१.५१कथं जयेयं संग्रामे भवन्तमपराजितम्
एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि

६.४१.५२भीष्म उवाच

६.४१.५३न तं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे
विजयेत पुमान्कश्चिदपि साक्षाच्छतक्रतुः

६.४१.५४युधिष्ठिर उवाच

६.४१.५५हन्त पृच्छामि तस्मात्त्वां पितामह नमोऽस्तु ते
जयोपायं ब्रवीहि त्वमात्मनः समरे परैः

६.४१.५६भीष्म उवाच

६.४१.५७न शत्रुं तात पश्यामि समरे यो जयेत माम्
न तावन्मृत्युकालो मे पुनरागमनं कुरु

६.४१.५८संजय उवाच

६.४१.५९ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन
शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च

६.४१.६०प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति
पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह

६.४१.६१स द्रोणमभिवाद्याथ कृत्वा चैव प्रदक्षिणम्
उवाच वाचा दुर्धर्षमात्मनिःश्रेयसं वचः

६.४१.६२आमन्त्रये त्वां भगवन्योत्स्ये विगतकल्मषः
जयेयं च रिपून्सर्वाननुज्ञातस्त्वया द्विज

६.४१.६३द्रोण उवाच

६.४१.६४यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः
शपेयं त्वां महाराज पराभावाय सर्वशः

६.४१.६५तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयानघ
अनुजानामि युध्यस्व विजयं समवाप्नुहि

६.४१.६६करवाणि च ते कामं ब्रूहि यत्तेऽभिकाङ्क्षितम्
एवं गते महाराज युद्धादन्यत्किमिच्छसि

६.४१.६७अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः

६.४१.६८अतस्त्वां क्लीबवद्ब्रूमो युद्धादन्यत्किमिच्छसि
योत्स्यामि कौरवस्यार्थे तवाशास्यो जयो मया

६.४१.६९युधिष्ठिर उवाच

६.४१.७०जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम्
युध्यस्व कौरवस्यार्थे वर एष वृतो मया

६.४१.७१द्रोण उवाच

६.४१.७२ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव
अहं च त्वाभिजानामि रणे शत्रून्विजेष्यसि

६.४१.७३यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः
युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते

६.४१.७४युधिष्ठिर उवाच

६.४१.७५पृच्छामि त्वां द्विजश्रेष्ठ शृणु मे यद्विवक्षितम्
कथं जयेयं संग्रामे भवन्तमपराजितम्

६.४१.७६द्रोण उवाच

६.४१.७७न तेऽस्ति विजयस्तावद्यावद्युध्याम्यहं रणे
ममाशु निधने राजन्यतस्व सह सोदरैः

६.४१.७८युधिष्ठिर उवाच

६.४१.७९हन्त तस्मान्महाबाहो वधोपायं वदात्मनः
आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते

६.४१.८०द्रोण उवाच

६.४१.८१न शत्रुं तात पश्यामि यो मां हन्याद्रणे स्थितम्
युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम्

६.४१.८२ऋते प्रायगतं राजन्न्यस्तशस्त्रमचेतनम्
हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते

६.४१.८३शस्त्रं चाहं रणे जह्यां श्रुत्वा सुमहदप्रियम्
श्रद्धेयवाक्यात्पुरुषादेतत्सत्यं ब्रवीमि ते

६.४१.८४संजय उवाच

६.४१.८५एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः
अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति

६.४१.८६सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम्
उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः

६.४१.८७अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः
जयेयं च रिपून्सर्वाननुज्ञातस्त्वयानघ

६.४१.८८कृप उवाच

६.४१.८९यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः
शपेयं त्वां महाराज पराभावाय सर्वशः

६.४१.९०अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः

६.४१.९१तेषामर्थे महाराज योद्धव्यमिति मे मतिः
अतस्त्वां क्लीबवद्ब्रूमि युद्धादन्यत्किमिच्छसि

६.४१.९२युधिष्ठिर उवाच

६.४१.९३हन्त पृच्छामि ते तस्मादाचार्य शृणु मे वचः

६.४१.९४संजय उवाच

६.४१.९५इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः
तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम्
अवध्योऽहं महीपाल युध्यस्व जयमाप्नुहि

६.४१.९६प्रीतस्त्वभिगमेनाहं जयं तव नराधिप
आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते

६.४१.९७एतच्छ्रुत्वा महाराज गौतमस्य वचस्तदा
अनुमान्य कृपं राजा प्रययौ येन मद्रराट्

६.४१.९८स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम्
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः

६.४१.९९अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः
जयेयं च महाराज अनुज्ञातस्त्वया रिपून्

६.४१.१००शल्य उवाच

६.४१.१०१यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः
शपेयं त्वां महाराज पराभावाय वै रणे

६.४१.१०२तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते
अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि

६.४१.१०३ब्रूहि चैव परं वीर केनार्थः किं ददामि ते
एवं गते महाराज युद्धादन्यत्किमिच्छसि

६.४१.१०४अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः

६.४१.१०५करिष्यामि हि ते कामं भागिनेय यथेप्सितम्
ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि

६.४१.१०६युधिष्ठिर उवाच

६.४१.१०७मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम्
कामं युध्य परस्यार्थे वरमेतद्वृणोम्यहम्

६.४१.१०८शल्य उवाच

६.४१.१०९ब्रूहि किमत्र साह्यं ते करोमि नृपसत्तम
कामं योत्स्ये परस्यार्थे वृतोऽस्म्यर्थेन कौरवैः

६.४१.११०युधिष्ठिर उवाच

६.४१.१११स एव मे वरः सत्य उद्योगे यस्त्वया कृतः
सूतपुत्रस्य संग्रामे कार्यस्तेजोवधस्त्वया

६.४१.११२शल्य उवाच

६.४१.११३संपत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितः
गच्छ युध्यस्व विस्रब्धं प्रतिजाने जयं तव

६.४१.११४संजय उवाच

६.४१.११५अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम्
निर्जगाम महासैन्याद्भ्रातृभिः परिवारितः

६.४१.११६वासुदेवस्तु राधेयमाहवेऽभिजगाम वै
तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः

६.४१.११७श्रुतं मे कर्ण भीष्मस्य द्वेषात्किल न योत्स्यसि
अस्मान्वरय राधेय यावद्भीष्मो न हन्यते

६.४१.११८हते तु भीष्मे राधेय पुनरेष्यसि संयुगे
धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम्

६.४१.११९कर्ण उवाच

६.४१.१२०न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव
त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम्

६.४१.१२१संजय उवाच

६.४१.१२२तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत
युधिष्ठिरपुरोगैश्च पाण्डवैः सह संगतः

६.४१.१२३अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः
योऽस्मान्वृणोति तदहं वरये साह्यकारणात्

६.४१.१२४अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत्
प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम्

६.४१.१२५अहं योत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान्
युष्मदर्थे महाराज यदि मां वृणुषेऽनघ

६.४१.१२६युधिष्ठिर उवाच

६.४१.१२७एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान्
युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः

६.४१.१२८वृणोमि त्वां महाबाहो युध्यस्व मम कारणात्
त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते

६.४१.१२९भजस्वास्मान्राजपुत्र भजमानान्महाद्युते
न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः

६.४१.१३०संजय उवाच

६.४१.१३१ततो युयुत्सुः कौरव्यः परित्यज्य सुतांस्तव
जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम्

६.४१.१३२ततो युधिष्ठिरो राजा संप्रहृष्टः सहानुजैः
जग्राह कवचं भूयो दीप्तिमत्कनकोज्ज्वलम्

६.४१.१३३प्रत्यपद्यन्त ते सर्वे रथान्स्वान्पुरुषर्षभाः
ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः

६.४१.१३४अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान्
सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः

६.४१.१३५रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः
धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे मुदा

६.४१.१३६गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान्
दृष्ट्वा महीक्षितस्तत्र पूजयां चक्रिरे भृशम्

६.४१.१३७सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम्
दयां च ज्ञातिषु परां कथयां चक्रिरे नृपाः

६.४१.१३८साधु साध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः
वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षिणीः

६.४१.१३९म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तदा
वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः

६.४१.१४०ततो जघ्नुर्महाभेरीः शतशश्चैव पुष्करान्
शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः