६.८.१धृतराष्ट्र उवाच
६.८.२मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम्
६.८.३संजय उवाच
६.८.४दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः
६.८.५तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च
६.८.६सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप
६.८.७ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम्
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च
६.८.८सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका
सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप
६.८.९देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः
तुल्यरूपगुणोपेताः समेषु विषमेषु च
६.८.१०मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम्
६.८.११मिथुनं जायमानं वै समं तच्च प्रवर्धते
तुल्यरूपगुणोपेतं समवेषं तथैव च
एकैकमनुरक्तं च चक्रवाकसमं विभो
६.८.१२निरामया वीतशोका नित्यं मुदितमानसाः
दश वर्षसहस्राणि दश वर्षशतानि च
जीवन्ति ते महाराज न चान्योन्यं जहत्युत
६.८.१३भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः
ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च
६.८.१४उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम्
६.८.१५तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः
६.८.१६कालाम्रश्च महाराज नित्यपुष्पफलः शुभः
द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः
६.८.१७तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः
६.८.१८चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः
चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः
६.८.१९दश वर्षसहस्राणि तत्रायुर्भरतर्षभ
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः
६.८.२०दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः
६.८.२१सर्वकामफलः पुण्यः सिद्धचारणसेवितः
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः
६.८.२२योजनानां सहस्रं च शतं च भरतर्षभ
उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर
६.८.२३अरत्नीनां सहस्रं च शतानि दश पञ्च च
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम्
६.८.२४पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम्
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम्
६.८.२५तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप
मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून्
६.८.२६पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप
तस्मिन्फलरसे पीते न जरा बाधते च तान्
६.८.२७तत्र जाम्बूनदं नाम कनकं देवभूषणम्
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः
६.८.२८तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट्
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ
६.८.२९तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्तगण्डिका
योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः
६.८.३०महारजतसंकाशा जायन्ते तत्र मानवाः
ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः
६.८.३१तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः
रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम्
६.८.३२षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम्
६.८.३३षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम्