७.११८.१संजय उवाच
७.११८.२स बाहुरपतद्भूमौ सखड्गः सशुभाङ्गदः
आदधज्जीवलोकस्य दुःखमुत्तममुत्तमः
७.११८.३प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना
वेगेनाभ्यपतद्भूमौ पञ्चास्य इव पन्नगः
७.११८.४स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः
उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास पाण्डवम्
७.११८.५नृशंसं बत कौन्तेय कर्मेदं कृतवानसि
अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः
७.११८.६किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम्
किं कुर्वाणो मया संख्ये हतो भूरिश्रवा इति
७.११८.७इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना
अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा
७.११८.८ननु नाम स्वधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः
अयुध्यमानस्य कथं रणे प्रहृतवानसि
७.११८.९न प्रमत्ताय भीताय विरथाय प्रयाचते
व्यसने वर्तमानाय प्रहरन्ति मनस्विनः
७.११८.१०इदं तु नीचाचरितमसत्पुरुषसेवितम्
कथमाचरितं पार्थ त्वया कर्म सुदुष्करम्
७.११८.११आर्येण सुकरं ह्याहुरार्यकर्म धनंजय
अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि
७.११८.१२येषु येषु नरः पार्थ यत्र यत्र च वर्तते
आशु तच्छीलतामेति तदिदं त्वयि दृश्यते
७.११८.१३कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः
क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः
७.११८.१४इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया
वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते
७.११८.१५को हि नाम प्रमत्ताय परेण सह युध्यते
ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत्
७.११८.१६व्रात्याः संश्लिष्टकर्माणः प्रकृत्यैव विगर्हिताः
वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः
७.११८.१७एवमुक्त्वा महाबाहुर्यूपकेतुर्महायशाः
युयुधानं परित्यज्य रणे प्रायमुपाविशत्
७.११८.१८शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः
यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत्
७.११८.१९सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः
ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः
७.११८.२०ततः स सर्वसेनायां जनः कृष्णधनंजयौ
गर्हयामास तं चापि शशंस पुरुषर्षभम्
७.११८.२१निन्द्यमानौ तथा कृष्णौ नोचतुः किंचिदप्रियम्
प्रशस्यमानश्च तथा नाहृष्यद्यूपकेतनः
७.११८.२२तांस्तथा वादिनो राजन्पुत्रांस्तव धनंजयः
अमृष्यमाणो मनसा तेषां तस्य च भाषितम्
७.११८.२३असंक्रुद्धमना वाचा स्मारयन्निव भारत
उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः
७.११८.२४मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम्
न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे
७.११८.२५यूपकेतो समीक्ष्य त्वं न मां गर्हितुमर्हसि
न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम्
७.११८.२६आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः
यदहं बाहुमच्छैत्सं न स धर्मो विगर्हितः
७.११८.२७न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः
अभिमन्योर्वधं तात धार्मिकः को न पूजयेत्
७.११८.२८एवमुक्तस्तु पार्थेन शिरसा भूमिमस्पृशत्
पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम्
७.११८.२९एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः
यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः
७.११८.३०अर्जुन उवाच
७.११८.३१या प्रीतिर्धर्मराजे मे भीमे च वदतां वरे
नकुले सहदेवे च सा मे त्वयि शलाग्रज
७.११८.३२मया तु समनुज्ञातः कृष्णेन च महात्मना
गच्छ पुण्यकृताँल्लोकाञ्शिबिरौशीनरो यथा
७.११८.३३संजय उवाच
७.११८.३४तत उत्थाय शैनेयो विमुक्तः सौमदत्तिना
खड्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः
७.११८.३५निहतं पाण्डुपुत्रेण प्रमत्तं भूरिदक्षिणम्
इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम्
७.११८.३६निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम्
क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः
७.११८.३७वार्यमाणः स कृष्णेन पार्थेन च महात्मना
भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च
७.११८.३८कर्णेन वृषसेनेन सैन्धवेन तथैव च
विक्रोशतां च सैन्यानामवधीत्तं यतव्रतम्
७.११८.३९प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे
सात्यकिः कौरवेन्द्राय खड्गेनापाहरच्छिरः
७.११८.४०नाभ्यनन्दन्त तत्सैन्याः सात्यकिं तेन कर्मणा
अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम्
७.११८.४१सहस्राक्षसमं तत्र सिद्धचारणमानवाः
भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम्
७.११८.४२अपूजयन्त तं देवा विस्मितास्तस्य कर्मभिः
पक्षवादांश्च बहुशः प्रावदंस्तस्य सैनिकाः
७.११८.४३न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा
तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखकरो नृणाम्
७.११८.४४हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा
विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे
७.११८.४५सात्यकिरुवाच
७.११८.४६न हन्तव्यो न हन्तव्य इति यन्मां प्रभाषथ
धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः
७.११८.४७यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः
युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः
७.११८.४८मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि
यो मां निष्पिष्य संग्रामे जीवन्हन्यात्पदा रुषा
स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः
७.११८.४९चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः
मन्यध्वं मृतमित्येवमेतद्वो बुद्धिलाघवम्
युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुंगवाः
७.११८.५०यत्तु पार्थेन मत्स्नेहात्स्वां प्रतिज्ञां च रक्षता
सखड्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः
७.११८.५१भवितव्यं च यद्भावि दैवं चेष्टयतीव च
सोऽयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम्
७.११८.५२अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि
पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत्
७.११८.५३संजय उवाच
७.११८.५४एवमुक्ते महाराज सर्वे कौरवपाण्डवाः
न स्म किंचिदभाषन्त मनसा समपूजयन्
७.११८.५५मन्त्रैर्हि पूतस्य महाध्वरेषु; यशस्विनो भूरिसहस्रदस्य
मुनेरिवारण्यगतस्य तस्य; न तत्र कश्चिद्वधमभ्यनन्दत्
७.११८.५६सुनीलकेशं वरदस्य तस्य; शूरस्य पारावतलोहिताक्षम्
अश्वस्य मेध्यस्य शिरो निकृत्तं; न्यस्तं हविर्धानमिवोत्तरेण
७.११८.५७स तेजसा शस्त्रहतेन पूतो; महाहवे देहवरं विसृज्य
आक्रामदूर्ध्वं वरदो वरार्हो; व्यावृत्य धर्मेण परेण रोदसी