७. द्रोणपर्व
७.१२८.१संजय उवाच

७.१२८.२तदुदीर्णगजाश्वौघं बलं तव जनाधिप
पाण्डुसेनामभिद्रुत्य योधयामास सर्वतः

७.१२८.३पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम्
यमराष्ट्राय महते परलोकाय दीक्षिताः

७.१२८.४शूराः शूरैः समागम्य शरतोमरशक्तिभिः
विव्यधुः समरे तूर्णं निन्युश्चैव यमक्षयम्

७.१२८.५रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम्
प्रावर्तत महद्युद्धं निघ्नतामितरेतरम्

७.१२८.६वारणाश्च महाराज समासाद्य परस्परम्
विषाणैर्दारयामासुः संक्रुद्धाश्च मदोत्कटाः

७.१२८.७हयारोहान्हयारोहाः प्रासशक्तिपरश्वधैः
बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः

७.१२८.८पत्तयश्च महाबाहो शतशः शस्त्रपाणयः
अन्योन्यमार्दयन्राजन्नित्ययत्ताः पराक्रमे

७.१२८.९गोत्राणां नामधेयानां कुलानां चैव मारिष
श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह

७.१२८.१०अन्योन्यं समरे योधाः शरशक्तिपरश्वधैः
प्रेषयन्परलोकाय विचरन्तो ह्यभीतवत्

७.१२८.११शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः
न भ्राजन्त यथापूर्वं भास्करेऽस्तं गतेऽपि च

७.१२८.१२तथा प्रयुध्यमानेषु पाण्डवेयेषु निर्भयः
दुर्योधनो महाराज व्यवगाहत तद्बलम्

७.१२८.१३सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः
मर्तव्यमिति संचिन्त्य प्राविशत्तु द्विषद्बलम्

७.१२८.१४नादयन्रथघोषेण कम्पयन्निव मेदिनीम्
अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम्

७.१२८.१५स संनिपातस्तुमुलस्तस्य तेषां च भारत
अभवत्सर्वसैन्यानामभावकरणो महान्

७.१२८.१६मध्यंदिनगतं सूर्यं प्रतपन्तं गभस्तिभिः
तथा तव सुतं मध्ये प्रतपन्तं शरोर्मिभिः

७.१२८.१७न शेकुर्भारतं युद्धे पाण्डवाः समवेक्षितुम्
पलायने कृतोत्साहा निरुत्साहा द्विषज्जये

७.१२८.१८पर्यधावन्त पाञ्चाला वध्यमाना महात्मना
रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना
अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः

७.१२८.१९न तादृशं रणे कर्म कृतवन्तस्तु तावकाः
यादृशं कृतवान्राजा पुत्रस्तव विशां पते

७.१२८.२०पुत्रेण तव सा सेना पाण्डवी मथिता रणे
नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा

७.१२८.२१क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी
बभूव पाण्डवी सेना तव पुत्रस्य तेजसा

७.१२८.२२पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत
भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन्

७.१२८.२३स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम्

७.१२८.२४धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः
केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः

७.१२८.२५सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः
घटोत्कचं च समरे विद्ध्वा सिंह इवानदत्

७.१२८.२६शतशश्चापरान्योधान्सद्विपाश्वरथान्रणे
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः

७.१२८.२७तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः
भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष

७.१२८.२८विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः
मर्माणि भित्त्वा ते सर्वे संभग्नाः क्षितिमाविशन्

७.१२८.२९ततः प्रमुदिता योधाः परिवव्रुर्युधिष्ठिरम्
वृत्रहत्यै यथा देवाः परिवव्रुः पुरंदरम्

७.१२८.३०ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष
शरं परमदुर्वारं प्रेषयामास संयुगे
स तेन भृशसंविद्धो निषसाद रथोत्तमे

७.१२८.३१ततः पाञ्चालसैन्यानां भृशमासीद्रवो महान्
हतो राजेति राजेन्द्र मुदितानां समन्ततः

७.१२८.३२बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष
अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे

७.१२८.३३हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम्
तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात्

७.१२८.३४प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला राजगृद्धिनः
तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम्
चण्डवातोद्धतान्मेघान्निघ्नन्रश्मिमुचो यथा

७.१२८.३५ततो राजन्महानासीत्संग्रामो भूरिवर्धनः
तावकानां परेषां च समेतानां युयुत्सया