७.१६०.१संजय उवाच
७.१६०.२ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत्
अमर्षवशमापन्नो जनयन्हर्षतेजसी
७.१६०.३न मर्षणीयाः संग्रामे विश्रमन्तः श्रमान्विताः
सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः
७.१६०.४तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया
त एते परिविश्रान्ताः पाण्डवा बलवत्तराः
७.१६०.५सर्वथा परिहीनाः स्म तेजसा च बलेन च
भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः
७.१६०.६दिव्यान्यस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्यपि
तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः
७.१६०.७न पाण्डवेया न वयं नान्ये लोके धनुर्धराः
युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते
७.१६०.८ससुरासुरगन्धर्वानिमाँल्लोकान्द्विजोत्तम
सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः
७.१६०.९स भवान्मर्षयत्येनांस्त्वत्तो भीतान्विशेषतः
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम्
७.१६०.१०एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते
समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः
७.१६०.११स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे
अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना
अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः
७.१६०.१२यद्भवान्मन्यते चापि शुभं वा यदि वाशुभम्
तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा
७.१६०.१३निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम्
विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे
७.१६०.१४मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे
तस्य वीर्यं महाबाहो शृणु सत्येन कौरव
७.१६०.१५तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः
उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम्
७.१६०.१६खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः
सायकैर्वारितश्चापि वर्षमाणो महात्मना
७.१६०.१७यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः
निहताः पुरुषेन्द्रेण तच्चापि विदितं तव
७.१६०.१८गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः
यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना
७.१६०.१९निवातकवचाश्चापि देवानां शत्रवस्तथा
सुरैरवध्याः संग्रामे तेन वीरेण निर्जिताः
७.१६०.२०दानवानां सहस्राणि हिरण्यपुरवासिनाम्
विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम्
७.१६०.२१प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव
क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते
७.१६०.२२तं तथाभिप्रशंसन्तमर्जुनं कुपितस्तदा
द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत्
७.१६०.२३अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे
हनिष्यामोऽर्जुनं संख्ये द्वैधीकृत्याद्य भारतीम्
७.१६०.२४तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव
अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत्
७.१६०.२५को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा
अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम्
७.१६०.२६तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः
नासुरोरगरक्षांसि क्षपयेयुः सहायुधम्
७.१६०.२७मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत
युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान्
७.१६०.२८त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चयः
श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि
७.१६०.२९गच्छ त्वमपि कौन्तेयमात्मार्थेभ्यो हि माचिरम्
त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि
७.१६०.३०इमान्किं पार्थिवान्सर्वान्घातयिष्यस्यनागसः
त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम्
७.१६०.३१एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः
दूर्द्यूतदेवी गान्धारिः प्रयात्वर्जुनमाहवे
७.१६०.३२एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः
देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान्
७.१६०.३३त्वया कथितमत्यन्तं कर्णेन सह हृष्टवत्
असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः
७.१६०.३४अहं च तात कर्णश्च भ्राता दुःशासनश्च मे
पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः
७.१६०.३५इति ते कत्थमानस्य श्रुतं संसदि संसदि
अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह
७.१६०.३६एष ते पाण्डवः शत्रुरविषह्योऽग्रतः स्थितः
क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात्
७.१६०.३७दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम्
कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम्
७.१६०.३८इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे
द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा