७. द्रोणपर्व
७.१७३.१धृतराष्ट्र उवाच

७.१७३.२तस्मिन्नतिरथे द्रोणे निहते तत्र संजय
मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम्

७.१७३.३संजय उवाच

७.१७३.४तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै
कौरवेषु च भग्नेषु कुन्तीपुत्रो धनंजयः

७.१७३.५दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम्
यदृच्छयागतं व्यासं पप्रच्छ भरतर्षभ

७.१७३.६संग्रामे निघ्नतः शत्रूञ्शरौघैर्विमलैरहम्
अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम्

७.१७३.७ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते
तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने

७.१७३.८न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति
शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा

७.१७३.९तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः
तेन दग्धानि सैन्यानि पृष्ठतोऽनुदहाम्यहम्

७.१७३.१०भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः
शूलपाणिर्महान्कृष्ण तेजसा सूर्यसंनिभः

७.१७३.११व्यास उवाच

७.१७३.१२प्रजापतीनां प्रथमं तैजसं पुरुषं विभुम्
भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्

७.१७३.१३ईशानं वरदं पार्थ दृष्टवानसि शंकरम्
तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम्

७.१७३.१४महादेवं महात्मानमीशानं जटिलं शिवम्
त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम्
दातारं चैव भक्तानां प्रसादविहितान्वरान्

७.१७३.१५तस्य ते पार्षदा दिव्या रूपैर्नानाविधैः विभोः
वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः

७.१७३.१६महाकाया महोत्साहा महाकर्णास्तथापरे
आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः

७.१७३.१७ईदृशैः स महादेवः पूज्यमानो महेश्वरः
स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः
तस्मिन्घोरे तदा पार्थ संग्रामे लोमहर्षणे

७.१७३.१८द्रोणकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः
कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत्
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात्

७.१७३.१९स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते

७.१७३.२०गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः
विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च

७.१७३.२१तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः

७.१७३.२२ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम्
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम्

७.१७३.२३नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे

७.१७३.२४कपर्दिने करालाय हर्यक्ष्णे वरदाय च
याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च

७.१७३.२५काम्याय हरिनेत्राय स्थाणवे पुरुषाय च
हरिकेशाय मुण्डाय कृशायोत्तरणाय च

७.१७३.२६भास्कराय सुतीर्थाय देवदेवाय रंहसे
बहुरूपाय शर्वाय प्रियाय प्रियवाससे

७.१७३.२७उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे
गिरिशाय प्रशान्ताय पतये चीरवाससे

७.१७३.२८हिरण्यबाहवे चैव उग्राय पतये दिशाम्
पर्जन्यपतये चैव भूतानां पतये नमः

७.१७३.२९वृक्षाणां पतये चैव अपां च पतये तथा
वृक्षैरावृतकायाय सेनान्ये मध्यमाय च

७.१७३.३०स्रुवहस्ताय देवाय धन्विने भार्गवाय च
बहुरूपाय विश्वस्य पतये चीरवाससे

७.१७३.३१सहस्रशिरसे चैव सहस्रनयनाय च
सहस्रबाहवे चैव सहस्रचरणाय च

७.१७३.३२शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम्
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम्
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम्

७.१७३.३३कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम्
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम्

७.१७३.३४वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम्
वृषायुधं वृषशरं वृषभूतं महेश्वरम्

७.१७३.३५महोदरं महाकायं द्वीपिचर्मनिवासिनम्
लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम्

७.१७३.३६त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम्
पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम्
प्रपद्ये शरणं देवं शरण्यं चीरवाससम्

७.१७३.३७नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा
सुवाससे नमो नित्यं सुव्रताय सुधन्विने

७.१७३.३८स्रुवहस्ताय देवाय सुखधन्वाय धन्विने
धन्वन्तराय धनुषे धन्वाचार्याय धन्विने

७.१७३.३९उग्रायुधाय देवाय नमः सुरवराय च
नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने

७.१७३.४०नमोऽस्तु स्थाणवे नित्यं सुव्रताय सुधन्विने
नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः

७.१७३.४१वनस्पतीनां पतये नराणां पतये नमः
अपां च पतये नित्यं यज्ञानां पतये नमः

७.१७३.४२पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च
नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः

७.१७३.४३कर्माणि चैव दिव्यानि महादेवस्य धीमतः
तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम्

७.१७३.४४न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः
सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः

७.१७३.४५विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा
धनुषा बाणमुत्सृज्य सघोषं विननाद च

७.१७३.४६ते न शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे

७.१७३.४७तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः
बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः

७.१७३.४८आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुंधरा
पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः

७.१७३.४९अन्धाश्च तमसा लोका न प्रकाशन्त संवृताः
जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः

७.१७३.५०चुक्रुशुर्भयभीताश्च शान्तिं चक्रुस्तथैव च
ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः

७.१७३.५१पूषाणमभ्यद्रवत शंकरः प्रहसन्निव
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत्

७.१७३.५२ततो निश्चक्रमुर्देवा वेपमाना नताः स्म तम्
पुनश्च संदधे दीप्तं देवानां निशितं शरम्

७.१७३.५३रुद्रस्य यज्ञभागं च विशिष्टं ते न्वकल्पयन्
भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे

७.१७३.५४तेन चैवातिकोपेन स यज्ञः संधितस्तदा
यत्ताश्चापि सुरा आसन्यत्ताश्चाद्यापि तं प्रति

७.१७३.५५असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि
आयसं राजतं चैव सौवर्णमपरं महत्

७.१७३.५६आयसं तारकाक्षस्य कमलाक्षस्य राजतम्
सौवर्णं परमं ह्यासीद्विद्युन्मालिन एव च

७.१७३.५७न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः

७.१७३.५८ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु
निपातयिष्यसे चैनानसुरान्भुवनेश्वर

७.१७३.५९स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया
अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान्

७.१७३.६०यदा त्रीणि समेतानि अन्तरिक्षे पुराणि वै
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः

७.१७३.६१पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम्
शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम्

७.१७३.६२बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान्

७.१७३.६३बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः
स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः

७.१७३.६४न संबुबुधिरे चैनं देवास्तं भुवनेश्वरम्
सप्रजापतयः सर्वे बालार्कसदृशप्रभम्

७.१७३.६५अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा च स महेश्वरम्
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः

७.१७३.६६ततः प्रसादयामासुरुमां रुद्रं च ते सुराः
अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः

७.१७३.६७तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः
देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः

७.१७३.६८स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित्
स चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः

७.१७३.६९स भवः स च पर्जन्यो महादेवः स चानघः
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः

७.१७३.७०स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि च
मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः

७.१७३.७१स च धाता विधाता च विश्वात्मा विश्वकर्मकृत्
सर्वासां देवतानां च धारयत्यवपुर्वपुः

७.१७३.७२सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः
शतधा सहस्रधा चैव तथा शतसहस्रधा

७.१७३.७३ईदृशः स महादेवो भूयश्च भगवानजः
न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः

७.१७३.७४सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान्
स मोचयति सुप्रीतः शरण्यः शरणागतान्

७.१७३.७५आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान्
स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः

७.१७३.७६सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते
स चैव व्याहृते लोके मनुष्याणां शुभाशुभे

७.१७३.७७ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते
महेश्वरश्च भूतानां महतामीश्वरश्च सः

७.१७३.७८बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत्
अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत

७.१७३.७९एष चैव श्मशानेषु देवो वसति नित्यशः
यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम्

७.१७३.८०अस्य दीप्तानि रूपाणि घोराणि च बहूनि च
लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च

७.१७३.८१नामधेयानि लोकेषु बहून्यत्र यथार्थवत्
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा

७.१७३.८२वेदे चास्य समाम्नातं शतरुद्रीयमुत्तमम्
नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः

७.१७३.८३स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः
स विभुः स प्रभुर्देवो विश्वं व्याप्नुवते महत्

७.१७३.८४ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा
प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत्

७.१७३.८५सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः

७.१७३.८६नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम्
महयन्ति च लोकाश्च महेश्वर इति स्मृतः

७.१७३.८७ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा
लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम्

७.१७३.८८पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः
सुखी प्रीतश्च भवति प्रहृष्टश्चैव शंकरः

७.१७३.८९यदस्य बहुधा रूपं भूतभव्यभवत्स्थितम्
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः

७.१७३.९०एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा
क्रोधाद्यश्चाविशल्लोकांस्तस्माच्छर्व इति स्मृतः

७.१७३.९१धूम्रं रूपं च यत्तस्य धूर्जटिस्तेन उच्यते
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः

७.१७३.९२तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः
द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः

७.१७३.९३समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु
शिवमिच्छन्मनुष्याणां तस्मादेश शिवः स्मृतः

७.१७३.९४सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः

७.१७३.९५दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत्
स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः

७.१७३.९६विषमस्थः शरीरेषु समश्च प्राणिनामिह
स वायुर्विषमस्थेषु प्राणापानशरीरिषु

७.१७३.९७पूजयेद्विग्रहं यस्तु लिङ्गं वापि समर्चयेत्
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते

७.१७३.९८ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः
आत्मनोऽर्धं च तस्याग्निः सोमोऽर्धं पुनरुच्यते

७.१७३.९९तैजसी महती दीप्ता देवेभ्यश्च शिवा तनुः
भास्वती मानुषेष्वस्य तनुर्घोराग्निरुच्यते

७.१७३.१००ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया
यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः

७.१७३.१०१यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान्
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते

७.१७३.१०२एष देवो महादेवो योऽसौ पार्थ तवाग्रतः
संग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक्

७.१७३.१०३एष वै भगवान्देवः संग्रामे याति तेऽग्रतः
येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः

७.१७३.१०४धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संज्ञितम्
देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम्

७.१७३.१०५सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम्
सर्वपापप्रशमनं सर्वदुःखभयापहम्

७.१७३.१०६चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा
विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते

७.१७३.१०७चरितं महात्मनो दिव्यं सांग्रामिकमिदं शुभम्
पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः

७.१७३.१०८भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा
वरान्स कामाँल्लभते प्रसन्ने त्र्यम्बके नरः

७.१७३.१०९गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः
यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः

७.१७३.११०संजय उवाच

७.१७३.१११एवमुक्त्वार्जुनं संख्ये पराशरसुतस्तदा
जगाम भरतश्रेष्ठ यथागतमरिंदम