७. द्रोणपर्व
७.३.१संजय उवाच

७.३.२शरतल्पे महात्मानं शयानममितौजसम्
महावातसमूहेन समुद्रमिव शोषितम्

७.३.३दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना
जयाशां तव पुत्राणां संभग्नां शर्म वर्म च

७.३.४अपाराणामिव द्वीपमगाधे गाधमिच्छताम्
स्रोतसा यामुनेनेव शरौघेण परिप्लुतम्

७.३.५महान्तमिव मैनाकमसह्यं भुवि पातितम्
नभश्च्युतमिवादित्यं पतितं धरणीतले

७.३.६शतक्रतोरिवाचिन्त्यं पुरा वृत्रेण निर्जयम्
मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम्

७.३.७ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम्
धनंजयशरव्याप्तं पितरं ते महाव्रतम्

७.३.८तं वीरशयने वीरं शयानं पुरुषर्षभम्
भीष्ममाधिरथिर्दृष्ट्वा भरतानाममध्यमम्

७.३.९अवतीर्य रथादार्तो बाष्पव्याकुलिताक्षरम्
अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत

७.३.१०कर्णोऽहमस्मि भद्रं ते अद्य मा वद भारत
पुण्यया क्षेमया वाचा चक्षुषा चावलोकय

७.३.११न नूनं सुकृतस्येह फलं कश्चित्समश्नुते
यत्र धर्मपरो वृद्धः शेते भुवि भवानिह

७.३.१२कोशसंजनने मन्त्रे व्यूहप्रहरणेषु च
नाथमन्यं न पश्यामि कुरूणां कुरुसत्तम

७.३.१३बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात्
योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि

७.३.१४अद्य प्रभृति संक्रुद्धा व्याघ्रा इव मृगक्षयम्
पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम्

७.३.१५अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः
कुरवः संत्रसिष्यन्ति वज्रपाणेरिवासुराः

७.३.१६अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः
त्रासयिष्यति संग्रामे कुरूनन्यांश्च पार्थिवान्

७.३.१७समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत्
धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः

७.३.१८येन येन प्रसरतो वाय्वग्नी सहितौ वने
तेन तेन प्रदहतो भगवन्तौ यदिच्छतः

७.३.१९यादृशोऽग्निः समिद्धो हि तादृक्पार्थो न संशयः
यथा वायुर्नरव्याघ्र तथा कृष्णो न संशयः

७.३.२०नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च
श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत

७.३.२१कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनः
शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः

७.३.२२को ह्यर्जुनं रणे योद्धुं त्वदन्यः पार्थिवोऽर्हति
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः

७.३.२३अमानुषश्च संग्रामस्त्र्यम्बकेन च धीमतः
तस्माच्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः

७.३.२४तमद्याहं पाण्डवं युद्धशौण्ड;ममृष्यमाणो भवतानुशिष्टः
आशीविषं दृष्टिहरं सुघोर;मियां पुरस्कृत्य वधं जयं वा