७. द्रोणपर्व
७.५८.१संजय उवाच

७.५८.२तयोः संवदतोरेव कृष्णदारुकयोस्तदा
सात्यगाद्रजनी राजन्नथ राजान्वबुध्यत

७.५८.३पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः
वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम्

७.५८.४नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः
कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः

७.५८.५मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः
आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः

७.५८.६एवमेतानि सर्वाणि तथान्यान्यपि भारत
वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः

७.५८.७स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम्
पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत्

७.५८.८प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे
उत्थायावश्यकार्यार्थं ययौ स्नानगृहं ततः

७.५८.९ततः शुक्लाम्बराः स्नातास्तरुणाष्टोत्तरं शतम्
स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे

७.५८.१०भद्रासने सूपविष्टः परिधायाम्बरं लघु
सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः

७.५८.११उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः
आप्लुतः साधिवासेन जलेन च सुगन्धिना

७.५८.१२हरिणा चन्दनेनाङ्गमनुलिप्य महाभुजः
स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः

७.५८.१३जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः
ततोऽग्निशरणं दीप्तं प्रविवेश विनीतवत्

७.५८.१४समिद्धं स पवित्राभिरग्निमाहुतिभिस्तथा
मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः

७.५८.१५द्वितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः
तत्र वेदविदो विप्रानपश्यद्ब्राह्मणर्षभान्

७.५८.१६दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च
सहस्रानुचरान्सौरानष्टौ दशशतानि च

७.५८.१७अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः
तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः

७.५८.१८प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः
अलंकृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः

७.५८.१९तथा गाः कपिला दोग्ध्रीः सर्षभाः पाण्डुनन्दनः
हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम्

७.५८.२०स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान्
माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम्

७.५८.२१पूर्णान्यक्षतपात्राणि रुचकान्रोचनांस्तथा
स्वलंकृताः शुभाः कन्या दधिसर्पिर्मधूदकम्

७.५८.२२मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम्
दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यामगात्ततः

७.५८.२३ततस्तस्य महाबाहोस्तिष्ठतः परिचारकाः
सौवर्णं सर्वतोभद्रं मुक्तावैडूर्यमण्डितम्

७.५८.२४परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत्
विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम्

७.५८.२५तत्र तस्योपविष्टस्य भूषणानि महात्मनः
उपजह्रुर्महार्हाणि प्रेष्याः शुभ्राणि सर्वशः

७.५८.२६युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः
रूपमासीन्महाराज द्विषतां शोकवर्धनम्

७.५८.२७पाण्डरैश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः
दोधूयमानः शुशुभे विद्युद्भिरिव तोयदः

७.५८.२८संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दिभिः
उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः

७.५८.२९ततो मुहूर्तादासीत्तु बन्दिनां निस्वनो महान्
नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम्

७.५८.३०ह्रादेन गजघण्टानां शङ्खानां निनदेन च
नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी

७.५८.३१ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः
शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम्

७.५८.३२कुण्डली बद्धनिस्त्रिंशः संनद्धकवचो युवा
अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै
न्यवेदयद्धृषीकेशमुपयातं महात्मने

७.५८.३३सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवम्
अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम्

७.५८.३४ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने
सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः