८.३१.१संजय उवाच
८.३१.२ततः परानीकभिदं व्यूहमप्रतिमं परैः
समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम्
८.३१.३प्रययौ रथघोषेण सिंहनादरवेण च
वादित्राणां च निनदैः कम्पयन्निव मेदिनीम्
८.३१.४वेपमान इव क्रोधाद्युद्धशौण्डः परंतपः
प्रतिव्यूह्य महातेजा यथावद्भरतर्षभ
८.३१.५व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव
युधिष्ठिरं चाभिभवन्नपसव्यं चकार ह
८.३१.६धृतराष्ट्र उवाच
८.३१.७कथं संजय राधेयः प्रत्यव्यूहत पाण्डवान्
धृष्टद्युम्नमुखान्वीरान्भीमसेनाभिरक्षितान्
८.३१.८के च प्रपक्षौ पक्षौ वा मम सैन्यस्य संजय
प्रविभज्य यथान्यायं कथं वा समवस्थिताः
८.३१.९कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान्
कथं चैतन्महायुद्धं प्रावर्तत सुदारुणम्
८.३१.१०क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम्
को ह्यर्जुनस्य सांनिध्ये शक्तोऽभ्येतुं युधिष्ठिरम्
८.३१.११सर्वभूतानि यो ह्येकः खाण्डवे जितवान्पुरा
कस्तमन्यत्र राधेयात्प्रतियुध्येज्जिजीविषुः
८.३१.१२संजय उवाच
८.३१.१३शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः
परिदाय नृपं तेभ्यः संग्रामश्चाभवद्यथा
८.३१.१४कृपः शारद्वतो राजन्मागधश्च तरस्विनः
सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः
८.३१.१५तेषां प्रपक्षे शकुनिरुलूकश्च महारथः
सादिभिर्विमलप्रासैस्तवानीकमरक्षताम्
८.३१.१६गान्धारिभिरसंभ्रान्तैः पार्वतीयैश्च दुर्जयैः
शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः
८.३१.१७चतुस्त्रिंशत्सहस्राणि रथानामनिवर्तिनाम्
संशप्तका युद्धशौण्डा वामं पार्श्वमपालयन्
८.३१.१८समुच्चितास्तव सुतैः कृष्णार्जुनजिघांसवः
तेषां प्रपक्षः काम्बोजाः शकाश्च यवनैः सह
८.३१.१९निदेशात्सूतपुत्रस्य सरथाः साश्वपत्तयः
आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम्
८.३१.२०मध्येसेनामुखं कर्णो व्यवातिष्ठत दंशितः
चित्रवर्माङ्गदः स्रग्वी पालयन्ध्वजिनीमुखम्
८.३१.२१रक्ष्यमाणः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः
वाहिनीप्रमुखं वीरः संप्रकर्षन्नशोभत
८.३१.२२अयोरत्निर्महाबाहुः सूर्यवैश्वानरद्युतिः
महाद्विपस्कन्धगतः पिङ्गलः प्रियदर्शनः
दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः
८.३१.२३तमन्वयान्महाराज स्वयं दुर्योधनो नृपः
चित्राश्वैश्चित्रसंनाहैः सोदर्यैरभिरक्षितः
८.३१.२४रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः
अशोभत महाराज देवैरिव शतक्रतुः
८.३१.२५अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः
नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैरधिष्ठिताः
अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः
८.३१.२६ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः
सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः
८.३१.२७तेषां पदातिनागानां पादरक्षाः सहस्रशः
पट्टिशासिधराः शूरा बभूवुरनिवर्तिनः
८.३१.२८सादिभिः स्यन्दनैर्नागैरधिकं समलंकृतैः
स व्यूहराजो विबभौ देवासुरचमूपमः
८.३१.२९बार्हस्पत्यः सुविहितो नायकेन विपश्चिता
नृत्यतीव महाव्यूहः परेषामादधद्भयम्
८.३१.३०तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः
पत्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः
८.३१.३१ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः
धनंजयममित्रघ्नमेकवीरमुवाच ह
८.३१.३२पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे
युक्तं पक्षैः प्रपक्षैश्च सेनानीकं प्रकाशते
८.३१.३३तदेतद्वै समालोक्य प्रत्यमित्रं महद्बलम्
यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम्
८.३१.३४एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत्
यथा भवानाह तथा तत्सर्वं न तदन्यथा
८.३१.३५यस्त्वस्य विहितो घातस्तं करिष्यामि भारत
प्रधानवध एवास्य विनाशस्तं करोम्यहम्
८.३१.३६युधिष्ठिर उवाच
८.३१.३७तस्मात्त्वमेव राधेयं भीमसेनः सुयोधनम्
वृषसेनं च नकुलः सहदेवोऽपि सौबलम्
८.३१.३८दुःशासनं शतानीको हार्दिक्यं शिनिपुंगवः
धृष्टद्युम्नस्तथा द्रौणिं स्वयं यास्याम्यहं कृपम्
८.३१.३९द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना
ते ते च तांस्तानहितानस्माकं घ्नन्तु मामकाः
८.३१.४०संजय उवाच
८.३१.४१इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनंजयः
व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम्
८.३१.४२अथ तं रथमायान्तं दृष्ट्वात्यद्भुतदर्शनम्
उवाचाधिरथिं शल्यः पुनस्तं युद्धदुर्मदम्
८.३१.४३अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः
निघ्नन्नमित्रान्कौन्तेयो यं यं त्वं परिपृच्छसि
८.३१.४४श्रूयते तुमुलः शब्दो रथनेमिस्वनो महान्
एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति
८.३१.४५चक्रनेमिप्रणुन्ना च कम्पते कर्ण मेदिनी
प्रवात्येष महावायुरभितस्तव वाहिनीम्
क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम्
८.३१.४६पश्य कर्ण महाघोरं भयदं लोमहर्षणम्
कबन्धं मेघसंकाशं भानुमावृत्य संस्थितम्
८.३१.४७पश्य यूथैर्बहुविधैर्मृगाणां सर्वतोदिशम्
बलिभिर्दृप्तशार्दूलैरादित्योऽभिनिरीक्ष्यते
८.३१.४८पश्य कङ्कांश्च गृध्रांश्च समवेतान्सहस्रशः
स्थितानभिमुखान्घोरानन्योन्यमभिभाषतः
८.३१.४९सिताश्चाश्वाः समायुक्तास्तव कर्ण महारथे
प्रदराः प्रज्वलन्त्येते ध्वजश्चैव प्रकम्पते
८.३१.५०उदीर्यतो हयान्पश्य महाकायान्महाजवान्
प्लवमानान्दर्शनीयानाकाशे गरुडानिव
८.३१.५१ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः
स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः
८.३१.५२शङ्खानां तुमुलः शब्दः श्रूयते लोमहर्षणः
आनकानां च राधेय मृदङ्गानां च सर्वशः
८.३१.५३बाणशब्दान्बहुविधान्नराश्वरथनिस्वनान्
ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम्
८.३१.५४हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः
नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः
८.३१.५५सहेमचन्द्रतारार्काः पताकाः किङ्किणीयुताः
पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे
८.३१.५६ध्वजाः कणकणायन्ते वातेनाभिसमीरिताः
सपताका रथाश्चापि पाञ्चालानां महात्मनाम्
८.३१.५७नागाश्वरथपत्त्यौघांस्तावकान्समभिघ्नतः
ध्वजाग्रं दृश्यते त्वस्य ज्याशब्दश्चापि श्रूयते
८.३१.५८अद्य द्रष्टासि तं वीरं श्वेताश्वं कृष्णसारथिम्
निघ्नन्तं शात्रवान्संख्ये यं कर्ण परिपृच्छसि
८.३१.५९अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परंतपौ
वासुदेवार्जुनौ कर्ण द्रष्टास्येकरथस्थितौ
८.३१.६०सारथिर्यस्य वार्ष्णेयो गाण्डीवं यस्य कार्मुकम्
तं चेद्धन्तासि राधेय त्वं नो राजा भविष्यसि
८.३१.६१एष संशप्तकाहूतस्तानेवाभिमुखो गतः
करोति कदनं चैषां संग्रामे द्विषतां बली
इति ब्रुवाणं मद्रेशं कर्णः प्राहातिमन्युमान्
८.३१.६२पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः
एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते
एतदन्तोऽर्जुनः शल्य निमग्नः शोकसागरे
८.३१.६३शल्य उवाच
८.३१.६४वरुणं कोऽम्भसा हन्यादिन्धनेन च पावकम्
को वानिलं निगृह्णीयात्पिबेद्वा को महार्णवम्
८.३१.६५ईदृग्रूपमहं मन्ये पार्थस्य युधि निग्रहम्
न हि शक्योऽर्जुनो जेतुं सेन्द्रैः सर्वैः सुरासुरैः
८.३१.६६अथैवं परितोषस्ते वाचोक्त्वा सुमना भव
न स शक्यो युधा जेतुमन्यं कुरु मनोरथम्
८.३१.६७बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः
पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत्
८.३१.६८पश्य कुन्तीसुतं वीरं भीममक्लिष्टकारिणम्
प्रभासन्तं महाबाहुं स्थितं मेरुमिवाचलम्
८.३१.६९अमर्षी नित्यसंरब्धश्चिरं वैरमनुस्मरन्
एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान्
८.३१.७०एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः
तिष्ठत्यसुकरः संख्ये परैः परपुरंजयः
८.३१.७१एतौ च पुरुषव्याघ्रावश्विनाविव सोदरौ
नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ
८.३१.७२दृश्यन्त एते कार्ष्णेयाः पञ्च पञ्चाचला इव
व्यवस्थिता योत्स्यमानाः सर्वेऽर्जुनसमा युधि
८.३१.७३एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः
हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः
८.३१.७४इति संवदतोरेव तयोः पुरुषसिंहयोः
ते सेने समसज्जेतां गङ्गायमुनवद्भृशम्