८.४४.१धृतराष्ट्र उवाच
८.४४.२निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे
वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः
८.४४.३द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः
किमकुर्वन्त कुरवस्तन्ममाचक्ष्व संजय
८.४४.४संजय उवाच
८.४४.५दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान्
क्रोधरक्तेक्षणो राजन्भीमसेनमुपाद्रवत्
८.४४.६तावकं च बलं दृष्ट्वा भीमसेनात्पराङ्मुखम्
यत्नेन महता राजन्पर्यवस्थापयद्बली
८.४४.७व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम्
प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान्
८.४४.८प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः
धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान्
८.४४.९भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः
धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः
८.४४.१०पाञ्चालाश्च नरव्याघ्राः समन्तात्तव वाहिनीम्
अभ्यद्रवन्त संक्रुद्धाः समरे जितकाशिनः
८.४४.११तथैव तावका राजन्पाण्डवानामनीकिनीम्
अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः
८.४४.१२रथनागाश्वकलिलं पत्तिध्वजसमाकुलम्
बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम्
८.४४.१३शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव
दुःशासनं महाराज महत्या सेनया वृतम्
८.४४.१४नकुलो वृषसेनं च चित्रसेनं युधिष्ठिरः
उलूकं समरे राजन्सहदेवः समभ्ययात्
८.४४.१५सात्यकिः शकुनिं चापि भीमसेनश्च कौरवान्
अर्जुनं च रणे यत्तं द्रोणपुत्रो महारथः
८.४४.१६युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे
कृतवर्मा च बलवानुत्तमौजसमाद्रवत्
८.४४.१७भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष
सहानीकान्महाबाहुरेक एवाभ्यवारयत्
८.४४.१८शिखण्डी च ततः कर्णं विचरन्तमभीतवत्
भीष्महन्ता महाराज वारयामास पत्रिभिः
८.४४.१९प्रतिरब्धस्ततः कर्णो रोषात्प्रस्फुरिताधरः
शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्ये व्यताडयत्
८.४४.२०धारयंस्तु स तान्बाणाञ्शिखण्डी बह्वशोभत
राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः
८.४४.२१सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे
कर्णं विव्याध समरे नवत्या निशितैः शरैः
८.४४.२२तस्य कर्णो हयान्हत्वा सारथिं च त्रिभिः शरैः
उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः
८.४४.२३हताश्वात्तु ततो यानादवप्लुत्य महारथः
शक्तिं चिक्षेप कर्णाय संक्रुद्धः शत्रुतापनः
८.४४.२४तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः
शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः
८.४४.२५कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः
अपयातस्ततस्तूर्णं शिखण्डी जयतां वरः
८.४४.२६ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत्
तूलराशिं समासाद्य यथा वायुर्महाजवः
८.४४.२७धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः
दुःशासनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे
८.४४.२८तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष
शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा
८.४४.२९धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः
दुःशासनाय संक्रुद्धः प्रेषयामास भारत
८.४४.३०आपतन्तं महावेगं धृष्टद्युम्नसमीरितम्
शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशां पते
८.४४.३१अथापरैः सप्तदशैर्भल्लैः कनकभूषणैः
धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्दयत्
८.४४.३२ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष
क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः
८.४४.३३अथान्यद्धनुरादाय पुत्रस्ते भरतर्षभ
धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत्
८.४४.३४तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः
व्यहसन्त रणे योधाः सिद्धाश्चाप्सरसां गणाः
८.४४.३५ततः प्रववृते युद्धं तावकानां परैः सह
घोरं प्राणभृतां काले घोररूपं परंतप
८.४४.३६नकुलं वृषसेनस्तु विद्ध्वा पञ्चभिरायसैः
पितुः समीपे तिष्ठन्तं त्रिभिरन्यैरविध्यत
८.४४.३७नकुलस्तु ततः क्रुद्धो वृषसेनं स्मयन्निव
नाराचेन सुतीक्ष्णेन विव्याध हृदये दृढम्
८.४४.३८सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः
शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः
८.४४.३९ततः शरसहस्रेण तावुभौ पुरुषर्षभौ
अन्योन्यमाच्छादयतामथाभज्यत वाहिनी
८.४४.४०दृष्ट्वा तु प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः
निवारयामास बलादनुपत्य विशां पते
निवृत्ते तु ततः कर्णे नकुलः कौरवान्ययौ
८.४४.४१कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु
जुगोप चक्रं त्वरितं राधेयस्यैव मारिष
८.४४.४२उलूकस्तु रणे क्रुद्धः सहदेवेन वारितः
तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान्
सारथिं प्रेषयामास यमस्य सदनं प्रति
८.४४.४३उलूकस्तु ततो यानादवप्लुत्य विशां पते
त्रिगर्तानां बलं पूर्णं जगाम पितृनन्दनः
८.४४.४४सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः
ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव
८.४४.४५सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान्
विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम्
८.४४.४६अथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत
सारथिं च महाराज त्रिभिरेव समार्दयत्
अथास्य वाहांस्त्वरितः शरैर्निन्ये यमक्षयम्
८.४४.४७ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ
आरुरोह रथं तूर्णमुलूकस्य महारथः
अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः
८.४४.४८सात्यकिस्तु रणे राजंस्तावकानामनीकिनीम्
अभिदुद्राव वेगेन ततोऽनीकमभिद्यत
८.४४.४९शैनेयशरनुन्नं तु ततः सैन्यं विशां पते
भेजे दश दिशस्तूर्णं न्यपतच्च गतासुवत्
८.४४.५०भीमसेनं तव सुतो वारयामास संयुगे
तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम्
चक्रे लोकेश्वरं तत्र तेनातुष्यन्त चारणाः
८.४४.५१ततोऽपायान्नृपस्तत्र भीमसेनस्य गोचरात्
कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत्
तत्र रावो महानासीद्भीममेकं जिघांसताम्
८.४४.५२युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छिदे
अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः
८.४४.५३युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ
ततोऽपायाद्रथेनैव युधामन्युर्महारथः
८.४४.५४उत्तमौजास्तु हार्दिक्यं शरैर्भीमपराक्रमम्
छादयामास सहसा मेघो वृष्ट्या यथाचलम्
८.४४.५५तद्युद्धं सुमहच्चासीद्घोररूपं परंतप
यादृशं न मया युद्धं दृष्टपूर्वं विशां पते
८.४४.५६कृतवर्मा ततो राजन्नुत्तमौजसमाहवे
हृदि विव्याध स तदा रथोपस्थ उपाविशत्
८.४४.५७सारथिस्तमपोवाह रथेन रथिनां वरम्
ततस्तु सत्वरं राजन्पाण्डुसैन्यमुपाद्रवत्