९.१४.१संजय उवाच
९.१४.२दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः
चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम्
९.१४.३तयोरासन्महाराज शरधाराः सहस्रशः
अम्बुदानां यथा काले जलधाराः समन्ततः
९.१४.४राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिरायसैः
द्रोणहन्तारमुग्रेषुः पुनर्विव्याध सप्तभिः
९.१४.५धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः
सप्तत्या विशिखानां वै दुर्योधनमपीडयत्
९.१४.६पीडितं प्रेक्ष्य राजानं सोदर्या भरतर्षभ
महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम्
९.१४.७स तैः परिवृतः शूरैः सर्वतोऽतिरथैर्भृशम्
व्यचरत्समरे राजन्दर्शयन्हस्तलाघवम्
९.१४.८शिखण्डी कृतवर्माणं गौतमं च महारथम्
प्रभद्रकैः समायुक्तो योधयामास धन्विनौ
९.१४.९तत्रापि सुमहद्युद्धं घोररूपं विशां पते
प्राणान्संत्यजतां युद्धे प्राणद्यूताभिदेवने
९.१४.१०शल्यस्तु शरवर्षाणि विमुञ्चन्सर्वतोदिशम्
पाण्डवान्पीडयामास ससात्यकिवृकोदरान्
९.१४.११तथोभौ च यमौ युद्धे यमतुल्यपराक्रमौ
योधयामास राजेन्द्र वीर्येण च बलेन च
९.१४.१२शल्यसायकनुन्नानां पाण्डवानां महामृधे
त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः
९.१४.१३ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते
अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः
९.१४.१४संछाद्य समरे शल्यं नकुलः परवीरहा
विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे
९.१४.१५सर्वपारशवैर्बाणैः कर्मारपरिमार्जितैः
स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः
९.१४.१६शल्यस्तु पीडितस्तेन स्वस्रीयेण महात्मना
नकुलं पीडयामास पत्रिभिर्नतपर्वभिः
९.१४.१७ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः
सहदेवश्च माद्रेयो मद्रराजमुपाद्रवन्
९.१४.१८तानापतत एवाशु पूरयानान्रथस्वनैः
दिशश्च प्रदिशश्चैव कम्पयानांश्च मेदिनीम्
प्रतिजग्राह समरे सेनापतिरमित्रजित्
९.१४.१९युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च सप्तभिः
सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः
९.१४.२०ततस्तु सशरं चापं नकुलस्य महात्मनः
मद्रेश्वरः क्षुरप्रेण तदा चिच्छेद मारिष
तदशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः
९.१४.२१अथान्यद्धनुरादाय माद्रीपुत्रो महारथः
मद्रराजरथं तूर्णं पूरयामास पत्रिभिः
९.१४.२२युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष
दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम्
९.१४.२३भीमसेनस्ततः षष्ट्या सात्यकिर्नवभिः शरैः
मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः
९.१४.२४मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः
विव्याध भूयः सप्तत्या शराणां नतपर्वणाम्
९.१४.२५अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष
हयांश्च चतुरः संख्ये प्रेषयामास मृत्यवे
९.१४.२६विरथं सात्यकिं कृत्वा मद्रराजो महाबलः
विशिखानां शतेनैनमाजघान समन्ततः
९.१४.२७माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम्
युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः
९.१४.२८तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम्
यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे
९.१४.२९अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः
पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान्
अभिदुद्राव वेगेन मद्राणामधिपं बली
९.१४.३०आपतन्तं रथं तस्य शल्यः समितिशोभनः
प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम्
९.१४.३१स संनिपातस्तुमुलो बभूवाद्भुतदर्शनः
सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च
यादृशो वै पुरा वृत्तः शम्बरामरराजयोः
९.१४.३२सात्यकिः प्रेक्ष्य समरे मद्रराजं व्यवस्थितम्
विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठेति चाब्रवीत्
९.१४.३३मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना
सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः
९.१४.३४ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम्
अभ्यद्रवन्रथैस्तूर्णं मातुलं वधकाम्यया
९.१४.३५तत आसीत्परामर्दस्तुमुलः शोणितोदकः
शूराणां युध्यमानानां सिंहानामिव नर्दताम्
९.१४.३६तेषामासीन्महाराज व्यतिक्षेपः परस्परम्
सिंहानामामिषेप्सूनां कूजतामिव संयुगे
९.१४.३७तेषां बाणसहस्रौघैराकीर्णा वसुधाभवत्
अन्तरिक्षं च सहसा बाणभूतमभूत्तदा
९.१४.३८शरान्धकारं बहुधा कृतं तत्र समन्ततः
अभ्रच्छायेव संजज्ञे शरैर्मुक्तैर्महात्मभिः
९.१४.३९तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नगैः
स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तथा
९.१४.४०तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः
यदेकः समरे शूरो योधयामास वै बहून्
९.१४.४१मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः
संपतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी
९.१४.४२तत्र शल्यरथं राजन्विचरन्तं महाहवे
अपश्याम यथा पूर्वं शक्रस्यासुरसंक्षये