९.६४.१संजय उवाच
९.६४.२वातिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम्
हतशिष्टास्ततो राजन्कौरवाणां महारथाः
९.६४.३विनिर्भिन्नाः शितैर्बाणैर्गदातोमरशक्तिभिः
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
त्वरिता जवनैरश्वैरायोधनमुपागमन्
९.६४.४तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम्
प्रभग्नं वायुवेगेन महाशालं यथा वने
९.६४.५भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम्
महागजमिवारण्ये व्याधेन विनिपातितम्
९.६४.६विवर्तमानं बहुशो रुधिरौघपरिप्लुतम्
यदृच्छया निपतितं चक्रमादित्यगोचरम्
९.६४.७महावातसमुत्थेन संशुष्कमिव सागरम्
पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम्
९.६४.८रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम्
वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः
यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम्
९.६४.९भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम्
सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा
९.६४.१०ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम्
मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः
९.६४.११अवतीर्य रथेभ्यस्तु प्राद्रवन्राजसंनिधौ
दुर्योधनं च संप्रेक्ष्य सर्वे भूमावुपाविशन्
९.६४.१२ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन्
उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम्
९.६४.१३न नूनं विद्यतेऽसह्यं मानुष्ये किंचिदेव हि
यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः
९.६४.१४भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम्
कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने
९.६४.१५दुःशासनं न पश्यामि नापि कर्णं महारथम्
नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ
९.६४.१६दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथंचन
लोकानां च भवान्यत्र शेते पांसुषु रूषितः
९.६४.१७एष मूर्धावसिक्तानामग्रे गत्वा परंतपः
सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम्
९.६४.१८क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव
सा च ते महती सेना क्व गता पार्थिवोत्तम
९.६४.१९दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे
यद्वै लोकगुरुर्भूत्वा भवानेतां दशां गतः
९.६४.२०अध्रुवा सर्वमर्त्येषु ध्रुवं श्रीरुपलक्ष्यते
भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम्
९.६४.२१तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः
उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः
९.६४.२२विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन्
कृपादीन्स तदा वीरान्सर्वानेव नराधिपः
९.६४.२३ईदृशो मर्त्यधर्मोऽयं धात्रा निर्दिष्ट उच्यते
विनाशः सर्वभूतानां कालपर्यायकारितः
९.६४.२४सोऽयं मां समनुप्राप्तः प्रत्यक्षं भवतां हि यः
पृथिवीं पालयित्वाहमेतां निष्ठामुपागतः
९.६४.२५दिष्ट्या नाहं परावृत्तो युद्धे कस्यांचिदापदि
दिष्ट्याहं निहतः पापैश्छलेनैव विशेषतः
९.६४.२६उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता
दिष्ट्या चास्मि हतो युद्धे निहतज्ञातिबान्धवः
९.६४.२७दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात्
स्वस्तियुक्तांश्च कल्यांश्च तन्मे प्रियमनुत्तमम्
९.६४.२८मा भवन्तोऽनुतप्यन्तां सौहृदान्निधनेन मे
यदि वेदाः प्रमाणं वो जिता लोका मयाक्षयाः
९.६४.२९मन्यमानः प्रभावं च कृष्णस्यामिततेजसः
तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात्
९.६४.३०स मया समनुप्राप्तो नास्मि शोच्यः कथंचन
कृतं भवद्भिः सदृशमनुरूपमिवात्मनः
यतितं विजये नित्यं दैवं तु दुरतिक्रमम्
९.६४.३१एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः
तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलो भृशम्
९.६४.३२तथा तु दृष्ट्वा राजानं बाष्पशोकसमन्वितम्
द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये
९.६४.३३स तु क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च
बाष्पविह्वलया वाचा राजानमिदमब्रवीत्
९.६४.३४पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा
न तथा तेन तप्यामि यथा राजंस्त्वयाद्य वै
९.६४.३५शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो
इष्टापूर्तेन दानेन धर्मेण सुकृतेन च
९.६४.३६अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः
सर्वोपायैर्हि नेष्यामि प्रेतराजनिवेशनम्
अनुज्ञां तु महाराज भवान्मे दातुमर्हति
९.६४.३७इति श्रुत्वा तु वचनं द्रोणपुत्रस्य कौरवः
मनसः प्रीतिजननं कृपं वचनमब्रवीत्
आचार्य शीघ्रं कलशं जलपूर्णं समानय
९.६४.३८स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः
कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत्
९.६४.३९तमब्रवीन्महाराज पुत्रस्तव विशां पते
ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम्
सेनापत्येन भद्रं ते मम चेदिच्छसि प्रियम्
९.६४.४०राज्ञो नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः
वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः
९.६४.४१राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः
द्रौणिं राज्ञो नियोगेन सेनापत्येऽभ्यषेचयत्
९.६४.४२सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम्
प्रययौ सिंहनादेन दिशः सर्वा विनादयन्
९.६४.४३दुर्योधनोऽपि राजेन्द्र शोणितौघपरिप्लुतः
तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम्
९.६४.४४अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप
शोकसंविग्नमनसश्चिन्ताध्यानपराभवन्