१.१०१.१जनमेजय उवाच
१.१०१.२किं कृतं कर्म धर्मेण येन शापमुपेयिवान्
कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत
१.१०१.३वैशंपायन उवाच
१.१०१.४बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः
धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः
१.१०१.५स आश्रमपदद्वारि वृक्षमूले महातपाः
ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः
१.१०१.६तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः
तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः
अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ
१.१०१.७ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम
निधाय च भयाल्लीनास्तत्रैवान्वागते बले
१.१०१.८तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम्
आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः
१.१०१.९तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम्
कतरेण पथा याता दस्यवो द्विजसत्तम
तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम्
१.१०१.१०तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः
न किंचिद्वचनं राजन्नवदत्साध्वसाधु वा
१.१०१.११ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम्
ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च
१.१०१.१२ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति
संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन्
१.१०१.१३तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति
स वध्यघातैरज्ञातः शूले प्रोतो महातपाः
१.१०१.१४ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा
प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ
१.१०१.१५शूलस्थः स तु धर्मात्मा कालेन महता ततः
निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत्
धारयामास च प्राणानृषींश्च समुपानयत्
१.१०१.१६शूलाग्रे तप्यमानेन तपस्तेन महात्मना
संतापं परमं जग्मुर्मुनयोऽथ परंतप
१.१०१.१७ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः
दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम्
श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि
१.१०१.१८ततः स मुनिशार्दूलस्तानुवाच तपोधनान्
दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति
१.१०१.१९राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः
प्रसादयामास तदा शूलस्थमृषिसत्तमम्
१.१०१.२०यन्मयापकृतं मोहादज्ञानादृषिसत्तम
प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि
१.१०१.२१एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः
कृतप्रसादो राजा तं ततः समवतारयत्
१.१०१.२२अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह
अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे
१.१०१.२३स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः
स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः
अणीमाण्डव्य इति च ततो लोकेषु कथ्यते
१.१०१.२४स गत्वा सदनं विप्रो धर्मस्य परमार्थवित्
आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः
१.१०१.२५किं नु तद्दुष्कृतं कर्म मया कृतमजानता
यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया
शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम्
१.१०१.२६धर्म उवाच
१.१०१.२७पतंगकानां पुच्छेषु त्वयेषीका प्रवेशिता
कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन
१.१०१.२८अणीमाण्डव्य उवाच
१.१०१.२९अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः
शूद्रयोनावतो धर्म मानुषः संभविष्यसि
१.१०१.३०मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम्
आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम्
परेण कुर्वतामेवं दोष एव भविष्यति
१.१०१.३१वैशंपायन उवाच
१.१०१.३२एतेन त्वपराधेन शापात्तस्य महात्मनः
धर्मो विदुररूपेण शूद्रयोनावजायत
१.१०१.३३धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः
दीर्घदर्शी शमपरः कुरूणां च हिते रतः