१.१०२.१वैशंपायन उवाच
१.१०२.२तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम्
कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत
१.१०२.३ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च
यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः
१.१०२.४वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः
गन्धवन्ति च माल्यानि रसवन्ति फलानि च
१.१०२.५वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः
शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन्
१.१०२.६नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः
प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत
१.१०२.७दानक्रियाधर्मशीला यज्ञव्रतपरायणाः
अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा
१.१०२.८मानक्रोधविहीनाश्च जना लोभविवर्जिताः
अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत
१.१०२.९तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत
द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः
प्रासादशतसंबाधं महेन्द्रपुरसंनिभम्
१.१०२.१०नदीषु वनखण्डेषु वापीपल्वलसानुषु
काननेषु च रम्येषु विजह्रुर्मुदिता जनाः
१.१०२.११उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा
विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः
नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः
१.१०२.१२तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः
कूपारामसभावाप्यो ब्राह्मणावसथास्तथा
भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते
१.१०२.१३बभूव रमणीयश्च चैत्ययूपशताङ्कितः
स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः
भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत
१.१०२.१४क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम्
पौरजानपदाः सर्वे बभूवुः सततोत्सवाः
१.१०२.१५गृहेषु कुरुमुख्यानां पौराणां च नराधिप
दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः
१.१०२.१६धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः
जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः
१.१०२.१७संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः
श्रमव्यायामकुशलाः समपद्यन्त यौवनम्
१.१०२.१८धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि
तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः
१.१०२.१९इतिहासपुराणेषु नानाशिक्षासु चाभिभो
वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः
१.१०२.२०पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत्
अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः
१.१०२.२१त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः
धर्मनित्यस्ततो राजन्धर्मे च परमं गतः
१.१०२.२२प्रनष्टं शंतनोर्वंशं समीक्ष्य पुनरुद्धृतम्
ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत
१.१०२.२३वीरसूनां काशिसुते देशानां कुरुजाङ्गलम्
सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम्
१.१०२.२४धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत
करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः