१. आदिपर्व
१.१०६.१वैशंपायन उवाच

१.१०६.२धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम्
भीष्माय सत्यवत्यै च मात्रे चोपजहार सः

१.१०६.३विदुराय च वै पाण्डुः प्रेषयामास तद्धनम्
सुहृदश्चापि धर्मात्मा धनेन समतर्पयत्

१.१०६.४ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम्
शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत

१.१०६.५ननन्द माता कौसल्या तमप्रतिमतेजसम्
जयन्तमिव पौलोमी परिष्वज्य नरर्षभम्

१.१०६.६तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः
अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः

१.१०६.७संप्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ
जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः

१.१०६.८हित्वा प्रासादनिलयं शुभानि शयनानि च
अरण्यनित्यः सततं बभूव मृगयापरः

१.१०६.९स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः
उवास गिरिपृष्ठेषु महाशालवनेषु च

१.१०६.१०रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन्
करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः

१.१०६.११भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम्
विचित्रकवचं वीरं परमास्त्रविदं नृपम्
देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः

१.१०६.१२तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः
उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः

१.१०६.१३अथ पारशवीं कन्यां देवकस्य महीपतेः
रूपयौवनसंपन्नां स शुश्रावापगासुतः

१.१०६.१४ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः
विवाहं कारयामास विदुरस्य महामतेः

१.१०६.१५तस्यां चोत्पादयामास विदुरः कुरुनन्दनः
पुत्रान्विनयसंपन्नानात्मनः सदृशान्गुणैः