१. आदिपर्व
१.१०५.१वैशंपायन उवाच

१.१०५.२रूपसत्त्वगुणोपेता धर्मारामा महाव्रता
दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे

१.१०५.३सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम्
भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत

१.१०५.४स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः
युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव

१.१०५.५यात्वा देवव्रतेनापि मद्राणां पुटभेदनम्
विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता

१.१०५.६सर्वराजसु विख्याता रूपेणासदृशी भुवि
पाण्डोरर्थे परिक्रीता धनेन महता तदा
विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः

१.१०५.७सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम्
पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि

१.१०५.८कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः
जिगीषमाणो वसुधां ययौ शत्रूननेकशः

१.१०५.९पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः
पाण्डुना नरसिंहेन कौरवाणां यशोभृता

१.१०५.१०ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम्
प्रभूतहस्त्यश्वरथां पदातिगणसंकुलाम्

१.१०५.११आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम्
गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः

१.१०५.१२ततः कोशं समादाय वाहनानि बलानि च
पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः

१.१०५.१३तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ
स्वबाहुबलवीर्येण कुरूणामकरोद्यशः

१.१०५.१४तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम्
पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः

१.१०५.१५ते ससेनाः ससेनेन विध्वंसितबला नृपाः
पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः

१.१०५.१६तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः
तमेकं मेनिरे शूरं देवेष्विव पुरंदरम्

१.१०५.१७तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः
उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च

१.१०५.१८मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा
गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान्

१.१०५.१९खरोष्ट्रमहिषांश्चैव यच्च किंचिदजाविकम्
तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः

१.१०५.२०तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः
हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम्

१.१०५.२१शंतनो राजसिंहस्य भरतस्य च धीमतः
प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः

१.१०५.२२ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च
ते नागपुरसिंहेन पाण्डुना करदाः कृताः

१.१०५.२३इत्यभाषन्त राजानो राजामात्याश्च संगताः
प्रतीतमनसो हृष्टाः पौरजानपदैः सह

१.१०५.२४प्रत्युद्ययुस्तं संप्राप्तं सर्वे भीष्मपुरोगमाः
ते नदूरमिवाध्वानं गत्वा नागपुरालयाः
आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः

१.१०५.२५नानायानसमानीतै रत्नैरुच्चावचैस्तथा
हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः
नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः

१.१०५.२६सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः
यथार्हं मानयामास पौरजानपदानपि

१.१०५.२७प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम्
पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत्

१.१०५.२८स तूर्यशतसंघानां भेरीणां च महास्वनैः
हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम्