१. आदिपर्व
१.१०८.१जनमेजय उवाच

१.१०८.२ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो
धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय

१.१०८.३वैशंपायन उवाच

१.१०८.४दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा
दुःसहो दुःशलश्चैव जलसंधः समः सहः

१.१०८.५विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च

१.१०८.६विविंशतिर्विकर्णश्च जलसंधः सुलोचनः
चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः

१.१०८.७दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः
ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ

१.१०८.८सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ
चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः

१.१०८.९अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः
भीमवेगो भीमबलो बलाकी बलवर्धनः

१.१०८.१०उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः

१.१०८.११दृढसंधो जरासंधः सत्यसंधः सदःसुवाक्
उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः

१.१०८.१२अपराजितः पण्डितको विशालाक्षो दुरावरः
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ

१.१०८.१३आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ
कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः

१.१०८.१४उग्रो भीमरथो वीरो वीरबाहुरलोलुपः
अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः

१.१०८.१५अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः
दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः

१.१०८.१६कुण्डाशी विरजाश्चैव दुःशला च शताधिका
एतदेकशतं राजन्कन्या चैका प्रकीर्तिता

१.१०८.१७नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः

१.१०८.१८सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः
सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः

१.१०८.१९सर्वेषामनुरूपाश्च कृता दारा महीपते
धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा

१.१०८.२०दुःशलां समये राजा सिन्धुराजाय भारत
जयद्रथाय प्रददौ सौबलानुमते तदा