१.१०९.१जनमेजय उवाच
१.१०९.२कथितो धार्तराष्ट्राणामार्षः संभव उत्तमः
अमानुषो मानुषाणां भवता ब्रह्मवित्तम
१.१०९.३नामधेयानि चाप्येषां कथ्यमानानि भागशः
त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय
१.१०९.४ते हि सर्वे महात्मानो देवराजपराक्रमाः
त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः
१.१०९.५तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम्
तेषामाजननं सर्वं वैशंपायन कीर्तय
१.१०९.६वैशंपायन उवाच
१.१०९.७राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते
वने मैथुनकालस्थं ददर्श मृगयूथपम्
१.१०९.८ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः
निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः
१.१०९.९स च राजन्महातेजा ऋषिपुत्रस्तपोधनः
भार्यया सह तेजस्वी मृगरूपेण संगतः
१.१०९.१०संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम्
क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः
१.१०९.११मृग उवाच
१.१०९.१२काममन्युपरीतापि बुद्ध्यङ्गरहितापि च
वर्जयन्ति नृशंसानि पापेष्वभिरता नराः
१.१०९.१३न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः
विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते
१.१०९.१४शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत
कामलोभाभिभूतस्य कथं ते चलिता मतिः
१.१०९.१५पाण्डुरुवाच
१.१०९.१६शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता
राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि
१.१०९.१७अच्छद्मनामायया च मृगाणां वध इष्यते
स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे
१.१०९.१८अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः
आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने
१.१०९.१९प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे
अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता
१.१०९.२०मृग उवाच
१.१०९.२१न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान्
रन्ध्र एषां विशेषेण वधकालः प्रशस्यते
१.१०९.२२पाण्डुरुवाच
१.१०९.२३प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा
उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे
१.१०९.२४मृग उवाच
१.१०९.२५नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात्
मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः
१.१०९.२६सर्वभूतहिते काले सर्वभूतेप्सिते तथा
को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने
पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम्
१.१०९.२७पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम्
वंशे जातस्य कौरव्य नानुरूपमिदं तव
१.१०९.२८नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम्
अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत
१.१०९.२९स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित्
नार्हस्त्वं सुरसंकाश कर्तुमस्वर्ग्यमीदृशम्
१.१०९.३०त्वया नृशंसकर्तारः पापाचाराश्च मानवाः
निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः
१.१०९.३१किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम्
मुनिं मूलफलाहारं मृगवेषधरं नृप
वसमानमरण्येषु नित्यं शमपरायणम्
१.१०९.३२त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम्
द्वयोर्नृशंसकर्तारमवशं काममोहितम्
जीवितान्तकरो भाव एवमेवागमिष्यति
१.१०९.३३अहं हि किंदमो नाम तपसाप्रतिमो मुनिः
व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम्
१.१०९.३४मृगो भूत्वा मृगैः सार्धं चरामि गहने वने
न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः
मृगरूपधरं हत्वा मामेवं काममोहितम्
१.१०९.३५अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि
प्रियया सह संवासं प्राप्य कामविमोहितः
त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि
१.१०९.३६अन्तकाले च संवासं यया गन्तासि कान्तया
प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम्
भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति
१.१०९.३७वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया
तथा सुखं त्वां संप्राप्तं दुःखमभ्यागमिष्यति
१.१०९.३८वैशंपायन उवाच
१.१०९.३९एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत
मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत