१.११८.१धृतराष्ट्र उवाच
१.११८.२पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय
राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः
१.११८.३पशून्वासांसि रत्नानि धनानि विविधानि च
पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम्
१.११८.४यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु
यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम्
१.११८.५न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः
यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः
१.११८.६वैशंपायन उवाच
१.११८.७विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत
पाण्डुं संस्कारयामास देशे परमसंवृते
१.११८.८ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः
निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः
१.११८.९अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः
शिबिकां समलंचक्रुर्वाससाच्छाद्य सर्वशः
१.११८.१०तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः
अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे
१.११८.११नृसिंहं नरयुक्तेन परमालंकृतेन तम्
अवहन्यानमुख्येन सह माद्र्या सुसंवृतम्
१.११८.१२पाण्डुरेणातपत्रेण चामरव्यजनेन च
सर्ववादित्रनादैश्च समलंचक्रिरे ततः
१.११८.१३रत्नानि चाप्युपादाय बहूनि शतशो नराः
प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम्
१.११८.१४अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च
आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च
१.११८.१५याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः
अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलंकृताः
१.११८.१६ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः
रुदन्तः शोकसंतप्ता अनुजग्मुर्नराधिपम्
१.११८.१७अयमस्मानपाहाय दुःखे चाधाय शाश्वते
कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः
१.११८.१८क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च
रमणीये वनोद्देशे गङ्गातीरे समे शुभे
१.११८.१९न्यासयामासुरथ तां शिबिकां सत्यवादिनः
सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः
१.११८.२०ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम्
शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम्
पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः
१.११८.२१चन्दनेन च मुख्येन शुक्लेन समलेपयन्
कालागुरुविमिश्रेण तथा तुङ्गरसेन च
१.११८.२२अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन्
आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः
शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः
१.११८.२३याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः
घृतावसिक्तं राजानं सह माद्र्या स्वलंकृतम्
१.११८.२४तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना
अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन्
१.११८.२५ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता
हाहा पुत्रेति कौसल्या पपात सहसा भुवि
१.११८.२६तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः
रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः
१.११८.२७क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः
मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि
१.११८.२८तथा भीष्मः शांतनवो विदुरश्च महामतिः
सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः
१.११८.२९ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः
उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः
१.११८.३०कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान्
सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन्
१.११८.३१यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः
तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः
१.११८.३२तदनानन्दमस्वस्थमाकुमारमहृष्टवत्
बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः