१. आदिपर्व
१.११७.१वैशंपायन उवाच

१.११७.२पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः
ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः

१.११७.३हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः
अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः

१.११७.४स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह
प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः

१.११७.५ते परस्परमामन्त्र्य सर्वभूतहिते रताः
पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम्

१.११७.६उदारमनसः सिद्धा गमने चक्रिरे मनः
भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि

१.११७.७तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे
पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः

१.११७.८सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला
प्रपन्ना दीर्घमध्वानं संक्षिप्तं तदमन्यत

१.११७.९सा नदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम्
वर्धमानपुरद्वारमाससाद यशस्विनी

१.११७.१०तं चारणसहस्राणां मुनीनामागमं तदा
श्रुत्वा नागपुरे नॄणां विस्मयः समजायत

१.११७.११मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः
सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः

१.११७.१२स्त्रीसंघाः क्षत्रसंघाश्च यानसंघान्समास्थिताः
ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः

१.११७.१३तथा विट्शूद्रसंघानां महान्व्यतिकरोऽभवत्
न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः

१.११७.१४तथा भीष्मः शांतनवः सोमदत्तोऽथ बाह्लिकः
प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम्

१.११७.१५सा च सत्यवती देवी कौसल्या च यशस्विनी
राजदारैः परिवृता गान्धारी च विनिर्ययौ

१.११७.१६धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः
भूषिता भूषणैश्चित्रैः शतसंख्या विनिर्ययुः

१.११७.१७तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च
उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः

१.११७.१८तथैव शिरसा भूमावभिवाद्य प्रणम्य च
उपोपविविशुः सर्वे पौरजानपदा अपि

१.११७.१९तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा
भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत्

१.११७.२०तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी
महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत्

१.११७.२१यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः
कामभोगान्परित्यज्य शतशृङ्गमितो गतः

१.११७.२२ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना
साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः

१.११७.२३तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः
मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम्

१.११७.२४पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः
यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति

१.११७.२५यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ
अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः

१.११७.२६चरता धर्मनित्येन वनवासं यशस्विना
एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः

१.११७.२७पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च
पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत

१.११७.२८वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च
पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि

१.११७.२९तं चितागतमाज्ञाय वैश्वानरमुखे हुतम्
प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः

१.११७.३०सा गता सह तेनैव पतिलोकमनुव्रता
तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम्

१.११७.३१इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः
क्रियाभिरनुगृह्यन्तां सह मात्रा परंतपाः

१.११७.३२प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः
लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः

१.११७.३३एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम्
क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह

१.११७.३४गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः
ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः