१.१२०.१जनमेजय उवाच
१.१२०.२कृपस्यापि महाब्रह्मन्संभवं वक्तुमर्हसि
शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान्
१.१२०.३वैशंपायन उवाच
१.१२०.४महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः
पुत्रः किल महाराज जातः सह शरैर्विभो
१.१२०.५न तस्य वेदाध्ययने तथा बुद्धिरजायत
यथास्य बुद्धिरभवद्धनुर्वेदे परंतप
१.१२०.६अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः
तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह
१.१२०.७धनुर्वेदपरत्वाच्च तपसा विपुलेन च
भृशं संतापयामास देवराजं स गौतमः
१.१२०.८ततो जालपदीं नाम देवकन्यां सुरेश्वरः
प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव
१.१२०.९साभिगम्याश्रमपदं रमणीयं शरद्वतः
धनुर्बाणधरं बाला लोभयामास गौतमम्
१.१२०.१०तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने
लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत्
१.१२०.११धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि
वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत
१.१२०.१२स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात्
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह
१.१२०.१३यस्त्वस्य सहसा राजन्विकारः समपद्यत
तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत
१.१२०.१४स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः
जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह
१.१२०.१५शरस्तम्बे च पतितं द्विधा तदभवन्नृप
तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः
१.१२०.१६मृगयां चरतो राज्ञः शंतनोस्तु यदृच्छया
कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत
१.१२०.१७धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च
व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत्
स राज्ञे दर्शयामास मिथुनं सशरं तदा
१.१२०.१८स तदादाय मिथुनं राजाथ कृपयान्वितः
आजगाम गृहानेव मम पुत्राविति ब्रुवन्
१.१२०.१९ततः संवर्धयामास संस्कारैश्चाप्ययोजयत्
गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत्
१.१२०.२०कृपया यन्मया बालाविमौ संवर्धिताविति
तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः
१.१२०.२१निहितौ गौतमस्तत्र तपसा तावविन्दत
आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा
१.१२०.२२चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च
निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा
सोऽचिरेणैव कालेन परमाचार्यतां गतः
१.१२०.२३ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः
धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः