१. आदिपर्व
१.१२१.१वैशंपायन उवाच

१.१२१.२विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया
इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान्

१.१२१.३नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः
नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान्

१.१२१.४महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा
ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः

१.१२१.५तस्या वायुः समुद्धूतो वसनं व्यपकर्षत
ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे

१.१२१.६तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः

१.१२१.७अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान्
प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः

१.१२१.८अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम
भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्

१.१२१.९भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः
तस्यापि द्रुपदो नाम तदा समभवत्सुतः

१.१२१.१०स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः

१.१२१.११ततो व्यतीते पृषते स राजा द्रुपदोऽभवत्
पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः

१.१२१.१२भरद्वाजोऽपि भगवानारुरोह दिवं तदा
ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः
शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत

१.१२१.१३अग्निहोत्रे च धर्मे च दमे च सततं रता
अलभद्गौतमी पुत्रमश्वत्थामानमेव च

१.१२१.१४स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः
तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत्

१.१२१.१५अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम्
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति

१.१२१.१६सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत्
तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत्

१.१२१.१७स शुश्राव महात्मानं जामदग्न्यं परंतपम्
ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः

१.१२१.१८वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत्
आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम्

१.१२१.१९राम उवाच

१.१२१.२०हिरण्यं मम यच्चान्यद्वसु किंचन विद्यते
ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन

१.१२१.२१तथैवेयं धरा देवी सागरान्ता सपत्तना
कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी

१.१२१.२२शरीरमात्रमेवाद्य मयेदमवशेषितम्
अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च
वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत्

१.१२१.२३द्रोण उवाच

१.१२१.२४अस्त्राणि मे समग्राणि ससंहाराणि भार्गव
सप्रयोगरहस्यानि दातुमर्हस्यशेषतः

१.१२१.२५वैशंपायन उवाच

१.१२१.२६तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः
सरहस्यव्रतं चैव धनुर्वेदमशेषतः

१.१२१.२७प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः
प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति