१. आदिपर्व
१.१२५.१वैशंपायन उवाच

१.१२५.२कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे
पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः

१.१२५.३हा वीर कुरुराजेति हा भीमेति च नर्दताम्
पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः

१.१२५.४ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान्
भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत्

१.१२५.५वारयैतौ महावीर्यौ कृतयोग्यावुभावपि
मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः

१.१२५.६ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ
युगान्तानिलसंक्षुब्धौ महावेगाविवार्णवौ

१.१२५.७ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत्
निवार्य वादित्रगणं महामेघनिभस्वनम्

१.१२५.८यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः
ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति

१.१२५.९आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा
बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः

१.१२५.१०काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः
सार्कः सेन्द्रायुधतडित्ससंध्य इव तोयदः

१.१२५.११ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान्
प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः

१.१२५.१२एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः
एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता

१.१२५.१३एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः
एष शीलवतां चापि शीलज्ञाननिधिः परः

१.१२५.१४इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः
कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत्

१.१२५.१५तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत्
धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः

१.१२५.१६क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः
सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम्

१.१२५.१७विदुर उवाच

१.१२५.१८एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः
अवतीर्णः सकवचस्तत्रैष सुमहास्वनः

१.१२५.१९धृतराष्ट्र उवाच

१.१२५.२०धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते
पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः

१.१२५.२१वैशंपायन उवाच

१.१२५.२२तस्मिन्समुदिते रङ्गे कथंचित्पर्यवस्थिते
दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम्

१.१२५.२३आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः
वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान्

१.१२५.२४भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन्
अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत्

१.१२५.२५क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः
क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम्

१.१२५.२६सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः
सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः

१.१२५.२७भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम्
पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत्

१.१२५.२८गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते
निचखान महावीर्यः सायकानेकविंशतिम्

१.१२५.२९इत्येवमादि सुमहत्खड्गे धनुषि चाभवत्
गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत्

१.१२५.३०ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत
मन्दीभूते समाजे च वादित्रस्य च निस्वने

१.१२५.३१द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः
वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः

१.१२५.३२दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते
किं स्विदापूर्यते व्योम जलभारघनैर्घनैः

१.१२५.३३रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप
द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा

१.१२५.३४पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ
पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः

१.१२५.३५अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम्
दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत्

१.१२५.३६स तैस्तदा भ्रातृभिरुद्यतायुधै;र्वृतो गदापाणिरवस्थितैः स्थितः
बभौ यथा दानवसंक्षये पुरा; पुरंदरो देवगणैः समावृतः