१.१२४.१वैशंपायन उवाच
१.१२४.२कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत
दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम्
१.१२४.३कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः
गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च
१.१२४.४राजन्संप्राप्तविद्यास्ते कुमराः कुरुसत्तम
ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव
१.१२४.५ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना
भारद्वाज महत्कर्म कृतं ते द्विजसत्तम
१.१२४.६यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा
तथा तथा विधानाय स्वयमाज्ञापयस्व माम्
१.१२४.७स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम्
अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान्
१.१२४.८क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा
न हीदृशं प्रियं मन्ये भविता धर्मवत्सल
१.१२४.९ततो राजानमामन्त्र्य विदुरानुगतो बहिः
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्
समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम्
१.१२४.१०तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते
अवघुष्टं पुरे चापि तदर्थं वदतां वर
१.१२४.११रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि
प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः
राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ
१.१२४.१२मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः
विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः
१.१२४.१३तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम्
१.१२४.१४मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम्
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत्
१.१२४.१५गान्धारी च महाभागा कुन्ती च जयतां वर
स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः
हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा
१.१२४.१६ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम्
दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम्
१.१२४.१७प्रवादितैश्च वादित्रैर्जनकौतूहलेन च
महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा
१.१२४.१८ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान्
शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः
१.१२४.१९रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह
नभो जलधरैर्हीनं साङ्गारक इवांशुमान्
१.१२४.२०स यथासमयं चक्रे बलिं बलवतां वरः
ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम्
१.१२४.२१अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम्
विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः
१.१२४.२२ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः
बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः
१.१२४.२३अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम्
१.१२४.२४केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे
मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः
१.१२४.२५ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम्
१.१२४.२६तत्कुमारबलं तत्र गृहीतशरकार्मुकम्
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन्
१.१२४.२७सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः
विस्मयोत्फुल्लनयनाः साधु साध्विति भारत
१.१२४.२८कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत्
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः
१.१२४.२९गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः
त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु
१.१२४.३०लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम्
ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम्
१.१२४.३१अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ
अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ
१.१२४.३२बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ
बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ
१.१२४.३३तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ
चेरतुर्निर्मलगदौ समदाविव गोवृषौ
१.१२४.३४विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः
न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम्