१.१२७.१वैशंपायन उवाच
१.१२७.२ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः
विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव
१.१२७.३तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः
कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत
१.१२७.४ततः पादाववच्छाद्य पटान्तेन ससंभ्रमः
पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः
१.१२७.५परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः
अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः
१.१२७.६तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः
भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव
१.१२७.७न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम्
कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया
१.१२७.८अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम
श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे
१.१२७.९एवमुक्तस्ततः कर्णः किंचित्प्रस्फुरिताधरः
गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत
१.१२७.१०ततो दुर्योधनः कोपादुत्पपात महाबलः
भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः
१.१२७.११सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम्
वृकोदर न युक्तं ते वचनं वक्तुमीदृशम्
१.१२७.१२क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना
शूराणां च नदीनां च प्रभवा दुर्विदाः किल
१.१२७.१३सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम्
दधीचस्यास्थितो वज्रं कृतं दानवसूदनम्
१.१२७.१४आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि
श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः
१.१२७.१५क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः
आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः
भवतां च यथा जन्म तदप्यागमितं नृपैः
१.१२७.१६सकुण्डलं सकवचं दिव्यलक्षणलक्षितम्
कथमादित्यसंकाशं मृगी व्याघ्रं जनिष्यति
१.१२७.१७पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः
अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना
१.१२७.१८यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम्
रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम्
१.१२७.१९ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत्
साधुवादानुसंबद्धः सूर्यश्चास्तमुपागमत्
१.१२७.२०ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप
दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ
१.१२७.२१पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते
भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम्
१.१२७.२२अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत
कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा
१.१२७.२३कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम्
पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत
१.१२७.२४दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव
भयमर्जुनसांजातं क्षिप्रमन्तरधीयत
१.१२७.२५स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत्सुयोधनम्
युधिष्ठिरस्याप्यभवत्तदा मति;र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ