१.१२८.१वैशंपायन उवाच
१.१२८.२ततः शिष्यान्समानीय आचार्यार्थमचोदयत्
द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते
१.१२८.३पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि
पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा
१.१२८.४तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः
आचार्यधनदानार्थं द्रोणेन सहिता ययुः
१.१२८.५ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः
ममृदुस्तस्य नगरं द्रुपदस्य महौजसः
१.१२८.६ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि
उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः
१.१२८.७भग्नदर्पं हृतधनं तथा च वशमागतम्
स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत्
१.१२८.८प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया
प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते
१.१२८.९एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत्
मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम्
१.१२८.१०आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह
तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ
१.१२८.११प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ
वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि
१.१२८.१२अराजा किल नो राज्ञां सखा भवितुमर्हति
अतः प्रयतितं राज्ये यज्ञसेन मया तव
१.१२८.१३राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे
सखायं मां विजानीहि पाञ्चाल यदि मन्यसे
१.१२८.१४द्रुपद उवाच
१.१२८.१५अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु
प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम्
१.१२८.१६वैशंपायन उवाच
१.१२८.१७एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत
सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत्
१.१२८.१८माकन्दीमथ गङ्गायास्तीरे जनपदायुताम्
सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम्
दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी
१.१२८.१९द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह
क्षात्रेण च बलेनास्य नापश्यत्स पराजयम्
१.१२८.२०हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च
पुत्रजन्म परीप्सन्वै स राजा तदधारयत्
अहिच्छत्रं च विषयं द्रोणः समभिपद्यत
१.१२८.२१एवं राजन्नहिच्छत्रा पुरी जनपदायुता
युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता