१.१३०.१वैशंपायन उवाच
१.१३०.२धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम्
मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत्
१.१३०.३धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः
सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः
१.१३०.४नास्य किंचिन्न जानामि भोजनादि चिकीर्षितम्
निवेदयति नित्यं हि मम राज्यं धृतव्रतः
१.१३०.५तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः
गुणवाँल्लोकविख्यातः पौराणां च सुसंमतः
१.१३०.६स कथं शक्यमस्माभिरपक्रष्टुं बलादितः
पितृपैतामहाद्राज्यात्ससहायो विशेषतः
१.१३०.७भृता हि पाण्डुनामात्या बलं च सततं भृतम्
भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः
१.१३०.८ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान्
१.१३०.९दुर्योधन उवाच
१.१३०.१०एवमेतन्मया तात भावितं दोषमात्मनि
दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः
१.१३०.११ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः
अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते
१.१३०.१२स भवान्पाण्डवानाशु विवासयितुमर्हति
मृदुनैवाभ्युपायेन नगरं वारणावतम्
१.१३०.१३यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति
तदा कुन्ती सहापत्या पुनरेष्यति भारत
१.१३०.१४धृतराष्ट्र उवाच
१.१३०.१५दुर्योधन ममाप्येतद्धृदि संपरिवर्तते
अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम्
१.१३०.१६न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः
विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित्
१.१३०.१७समा हि कौरवेयाणां वयमेते च पुत्रक
नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः
१.१३०.१८ते वयं कौरवेयाणामेतेषां च महात्मनाम्
कथं न वध्यतां तात गच्छेम जगतस्तथा
१.१३०.१९दुर्योधन उवाच
१.१३०.२०मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः
यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः
१.१३०.२१कृपः शारद्वतश्चैव यत एते त्रयस्ततः
द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित्
१.१३०.२२क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे
न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम्
१.१३०.२३स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय
वारणावतमद्यैव नात्र दोषो भविष्यति
१.१३०.२४विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम्
शोकपावकमुद्भूतं कर्मणैतेन नाशय