१.१३१.१वैशंपायन उवाच
१.१३१.२ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः
अर्थमानप्रदानाभ्यां संजहार सहानुजः
१.१३१.३धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः
कथयां चक्रिरे रम्यं नगरं वारणावतम्
१.१३१.४अयं समाजः सुमहान्रमणीयतमो भुवि
उपस्थितः पशुपतेर्नगरे वारणावते
१.१३१.५सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे
इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः
१.१३१.६कथ्यमाने तथा रम्ये नगरे वारणावते
गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप
१.१३१.७यदा त्वमन्यत नृपो जातकौतूहला इति
उवाचैनानथ तदा पाण्डवानम्बिकासुतः
१.१३१.८ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः
रमणीयतरं लोके नगरं वारणावतम्
१.१३१.९ते तात यदि मन्यध्वमुत्सवं वारणावते
सगणाः सानुयात्राश्च विहरध्वं यथामराः
१.१३१.१०ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः
प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः
१.१३१.११कंचित्कालं विहृत्यैवमनुभूय परां मुदम्
इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ
१.१३१.१२धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः
आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम्
१.१३१.१३ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम्
द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम्
१.१३१.१४कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम्
युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा
१.१३१.१५रमणीये जनाकीर्णे नगरे वारणावते
सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात्
१.१३१.१६प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत
आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति
१.१३१.१७एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः
प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान्
१.१३१.१८स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः
मा च वोऽस्त्वशुभं किंचित्सर्वतः पाण्डुनन्दनाः
१.१३१.१९ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः
कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम्