१.१३५.१वैशंपायन उवाच
१.१३५.२विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित्
विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत्
१.१३५.३प्रहितो विदुरेणास्मि खनकः कुशलो भृशम्
पाण्डवानां प्रियं कार्यमिति किं करवाणि वः
१.१३५.४प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान्
प्रतिपादय विश्वासादिति किं करवाणि वः
१.१३५.५कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः
भवनस्य तव द्वारि प्रदास्यति हुताशनम्
१.१३५.६मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः
इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम्
१.१३५.७किंचिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव
त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम्
१.१३५.८उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः
अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै
१.१३५.९शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम्
न विद्यते कवेः किंचिदभिज्ञानप्रयोजनम्
१.१३५.१०यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि
भवतः स्म यथा तस्य पालयास्मान्यथा कविः
१.१३५.११इदं शरणमाग्नेयं मदर्थमिति मे मतिः
पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात्
१.१३५.१२स पापः कोशवांश्चैव ससहायश्च दुर्मतिः
अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते
१.१३५.१३स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात्
अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः
१.१३५.१४समृद्धमायुधागारमिदं तस्य दुरात्मनः
वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत्
१.१३५.१५इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम्
प्रागेव विदुरो वेद तेनास्मानन्वबोधयत्
१.१३५.१६सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा
पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय
१.१३५.१७स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः
परिखामुत्किरन्नाम चकार सुमहद्बिलम्
१.१३५.१८चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम्
कपाटयुक्तमज्ञातं समं भूम्या च भारत
१.१३५.१९पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम्
स तत्र च गृहद्वारि वसत्यशुभधीः सदा
१.१३५.२०तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप
दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम्
१.१३५.२१विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम्
अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः
१.१३५.२२न चैनानन्वबुध्यन्त नरा नगरवासिनः
अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात्