१. आदिपर्व
१.१३६.१वैशंपायन उवाच

१.१३६.२तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान्
विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः

१.१३६.३पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः
भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित्

१.१३६.४अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः
वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने

१.१३६.५आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम्
षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः

१.१३६.६अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम्
चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः

१.१३६.७ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत
जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम्

१.१३६.८निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया
अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता

१.१३६.९सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला
सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप

१.१३६.१०अथ प्रवाते तुमुले निशि सुप्ते जने विभो
तदुपादीपयद्भीमः शेते यत्र पुरोचनः

१.१३६.११ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः
प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः

१.१३६.१२पौरा ऊचुः

१.१३६.१३दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना
गृहमात्मविनाशाय कारितं दाहितं च यत्

१.१३६.१४अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी
यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा

१.१३६.१५दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः
अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान्

१.१३६.१६वैशंपायन उवाच

१.१३६.१७एवं ते विलपन्ति स्म वारणावतका जनाः
परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः

१.१३६.१८पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः
बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः

१.१३६.१९तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः
न शेकुः सहसा गन्तुं सह मात्रा परंतपाः

१.१३६.२०भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः
जगाम भ्रातॄनादाय सर्वान्मातरमेव च

१.१३६.२१स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान्
पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ

१.१३६.२२तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन्
स जगामाशु तेजस्वी वातरंहा वृकोदरः