१.१४२.१वैशंपायन उवाच
१.१४२.२प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम्
विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह
१.१४२.३ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा
उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः
१.१४२.४कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि
केन कार्येण सुश्रोणि कुतश्चागमनं तव
१.१४२.५यदि वास्य वनस्यासि देवता यदि वाप्सराः
आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि
१.१४२.६हिडिम्बोवाच
१.१४२.७यदेतत्पश्यसि वनं नीलमेघनिभं महत्
निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च
१.१४२.८तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि
भ्रात्रा संप्रेषितामार्ये त्वां सपुत्रां जिघांसता
१.१४२.९क्रूरबुद्धेरहं तस्य वचनादागता इह
अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम्
१.१४२.१०ततोऽहं सर्वभूतानां भावे विचरता शुभे
चोदिता तव पुत्रस्य मन्मथेन वशानुगा
१.१४२.११ततो वृतो मया भर्ता तव पुत्रो महाबलः
अपनेतुं च यतितो न चैव शकितो मया
१.१४२.१२चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः
स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान्
१.१४२.१३स तेन मम कान्तेन तव पुत्रेण धीमता
बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना
१.१४२.१४विकर्षन्तौ महावेगौ गर्जमानौ परस्परम्
पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ
१.१४२.१५वैशंपायन उवाच
१.१४२.१६तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः
अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान्
१.१४२.१७तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम्
काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ
१.१४२.१८तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम्
दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः
१.१४२.१९वसुधारेणुसंवीतौ वसुधाधरसंनिभौ
विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ
१.१४२.२०राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु
उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव
१.१४२.२१भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम्
समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः
१.१४२.२२साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम्
नकुलः सहदेवश्च मातरं गोपयिष्यतः
१.१४२.२३भीम उवाच
१.१४२.२४उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया
न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः
१.१४२.२५अर्जुन उवाच
१.१४२.२६किमनेन चिरं भीम जीवता पापरक्षसा
गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम
१.१४२.२७पुरा संरज्यते प्राची पुरा संध्या प्रवर्तते
रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च
१.१४२.२८त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम्
पुरा विकुरुते मायां भुजयोः सारमर्पय
१.१४२.२९वैशंपायन उवाच
१.१४२.३०अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः
उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम्
१.१४२.३१भीम उवाच
१.१४२.३२वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि
१.१४२.३३अर्जुन उवाच
१.१४२.३४अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि
करोमि तव साहाय्यं शीघ्रमेव निहन्यताम्
१.१४२.३५अथ वाप्यहमेवैनं हनिष्यामि वृकोदर
कृतकर्मा परिश्रान्तः साधु तावदुपारम
१.१४२.३६वैशंपायन उवाच
१.१४२.३७तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः
निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत्
१.१४२.३८स मार्यमाणो भीमेन ननाद विपुलं स्वनम्
पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः
१.१४२.३९भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः
मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान्
१.१४२.४०हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः
अपूजयन्नरव्याघ्रं भीमसेनमरिंदमम्
१.१४२.४१अभिपूज्य महात्मानं भीमं भीमपराक्रमम्
पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम्
१.१४२.४२नदूरे नगरं मन्ये वनादस्मादहं प्रभो
शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः
१.१४२.४३ततः सर्वे तथेत्युक्त्वा सह मात्रा परंतपाः
प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी