१.१४३.१भीम उवाच
१.१४३.२स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम्
हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम्
१.१४३.३युधिष्ठिर उवाच
१.१४३.४क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः
शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव
१.१४३.५वधाभिप्रायमायान्तमवधीस्त्वं महाबलम्
रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति
१.१४३.६वैशंपायन उवाच
१.१४३.७हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः
युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत्
१.१४३.८आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम्
तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे
१.१४३.९सोढं तत्परमं दुःखं मया कालप्रतीक्षया
सोऽयमभ्यागतः कालो भविता मे सुखाय वै
१.१४३.१०मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा
वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे
१.१४३.११वरेणापि तथानेन त्वया चापि यशस्विनि
तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति
१.१४३.१२त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा
भर्त्रानेन महाभागे संयोजय सुतेन ते
१.१४३.१३तमुपादाय गच्छेयं यथेष्टं देवरूपिणम्
पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे
१.१४३.१४अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा
वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान्
१.१४३.१५पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः
यूयं प्रसादं कुरुत भीमसेनो भजेत माम्
१.१४३.१६आपदस्तरणे प्राणान्धारयेद्येन येन हि
सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता
१.१४३.१७आपत्सु यो धारयति धर्मं धर्मविदुत्तमः
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते
१.१४३.१८पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते
येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते
१.१४३.१९युधिष्ठिर उवाच
१.१४३.२०एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः
स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे
१.१४३.२१स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम्
भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः
१.१४३.२२अहःसु विहरानेन यथाकामं मनोजवा
अयं त्वानयितव्यस्ते भीमसेनः सदा निशि
१.१४३.२३वैशंपायन उवाच
१.१४३.२४तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा
भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः
१.१४३.२५शैलशृङ्गेषु रम्येषु देवतायतनेषु च
मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा
१.१४३.२६कृत्वा च परमं रूपं सर्वाभरणभूषिता
संजल्पन्ती सुमधुरं रमयामास पाण्डवम्
१.१४३.२७तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु
सरःसु रमणीयेषु पद्मोत्पलयुतेषु च
१.१४३.२८नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च
सुतीर्थवनतोयासु तथा गिरिनदीषु च
१.१४३.२९सगरस्य प्रदेशेषु मणिहेमचितेषु च
पत्तनेषु च रम्येषु महाशालवनेषु च
१.१४३.३०देवारण्येषु पुण्येषु तथा पर्वतसानुषु
गुह्यकानां निवासेषु तापसायतनेषु च
१.१४३.३१सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च
बिभ्रती परमं रूपं रमयामास पाण्डवम्
१.१४३.३२रमयन्ती तथा भीमं तत्र तत्र मनोजवा
प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम्
१.१४३.३३विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम्
भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम्
१.१४३.३४महेष्वासं महावीर्यं महासत्त्वं महाभुजम्
महाजवं महाकायं महामायमरिंदमम्
१.१४३.३५अमानुषं मानुषजं भीमवेगं महाबलम्
यः पिशाचानतीवान्यान्बभूवाति स मानुषान्
१.१४३.३६बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते
सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली
१.१४३.३७सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च
कामरूपधराश्चैव भवन्ति बहुरूपिणः
१.१४३.३८प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा
मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः
१.१४३.३९घटभासोत्कच इति मातरं सोऽभ्यभाषत
अभवत्तेन नामास्य घटोत्कच इति स्म ह
१.१४३.४०अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः
तेषां च दयितो नित्यमात्मभूतो बभूव सः
१.१४३.४१संवाससमयो जीर्ण इत्यभाषत तं ततः
हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत
१.१४३.४२कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः
आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम्
१.१४३.४३स हि सृष्टो मघवता शक्तिहेतोर्महात्मना
कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः