१.१४७.१वैशंपायन उवाच
१.१४७.२तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत्
भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत
१.१४७.३किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत्
ममापि श्रूयतां किंचिच्छ्रुत्वा च क्रियतां क्षमम्
१.१४७.४धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः
त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया
१.१४७.५इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति
तस्मिन्नुपस्थिते काले तरतं प्लववन्मया
१.१४७.६इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत्
सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः
१.१४७.७आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः
तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः
१.१४७.८भ्राता च मम बालोऽयं गते लोकममुं त्वयि
अचिरेणैव कालेन विनश्येत न संशयः
१.१४७.९तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे
पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत्
१.१४७.१०पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम्
दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता
१.१४७.११त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः
संतानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम्
१.१४७.१२आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल
स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय
१.१४७.१३अनाथा कृपणा बाला यत्रक्वचनगामिनी
भविष्यामि त्वया तात विहीना कृपणा बत
१.१४७.१४अथ वाहं करिष्यामि कुलस्यास्य विमोक्षणम्
फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम्
१.१४७.१५अथ वा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम
पीडिताहं भविष्यामि तदवेक्षस्व मामपि
१.१४७.१६तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम
आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज
१.१४७.१७अवश्यकरणीयेऽर्थे मा त्वां कालोऽत्यगादयम्
त्वया दत्तेन तोयेन भविष्यति हितं च मे
१.१४७.१८किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि
याचमानाः परादन्नं परिधावेमहि श्ववत्
१.१४७.१९त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे
अमृते वसती लोके भविष्यामि सुखान्विता
१.१४७.२०एवं बहुविधं तस्या निशम्य परिदेवितम्
पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः
१.१४७.२१ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः
उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत्
१.१४७.२२मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन्
प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति
१.१४७.२३ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत्
अनेन तं हनिष्यामि राक्षसं पुरुषादकम्
१.१४७.२४तथापि तेषां दुःखेन परीतानां निशम्य तत्
बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान्
१.१४७.२५अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान्
गतासूनमृतेनेव जीवयन्तीदमब्रवीत्