१.१४८.१कुन्त्युवाच
१.१४८.२कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः
विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम्
१.१४८.३ब्राह्मण उवाच
१.१४८.४उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने
न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम्
१.१४८.५समीपे नगरस्यास्य बको वसति राक्षसः
ईशो जनपदस्यास्य पुरस्य च महाबलः
१.१४८.६पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः
रक्षत्यसुरराण्नित्यमिमं जनपदं बली
१.१४८.७नगरं चैव देशं च रक्षोबलसमन्वितः
तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम्
१.१४८.८वेतनं तस्य विहितं शालिवाहस्य भोजनम्
महिषौ पुरुषश्चैको यस्तदादाय गच्छति
१.१४८.९एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम्
स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः
१.१४८.१०तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित्
सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत
१.१४८.११वेत्रकीयगृहे राजा नायं नयमिहास्थितः
अनामयं जनस्यास्य येन स्यादद्य शाश्वतम्
१.१४८.१२एतदर्हा वयं नूनं वसामो दुर्बलस्य ये
विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः
१.१४८.१३ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः
गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा
१.१४८.१४राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्
त्रयस्य संचये चास्य ज्ञातीन्पुत्रांश्च धारयेत्
१.१४८.१५विपरीतं मया चेदं त्रयं सर्वमुपार्जितम्
त इमामापदं प्राप्य भृशं तप्स्यामहे वयम्
१.१४८.१६सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः
भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया
१.१४८.१७न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित्
सुहृज्जनं प्रदातुं च न शक्ष्यामि कथंचन
गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः
१.१४८.१८सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम्
सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम्
ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति