१. आदिपर्व
१.१६२.१गन्धर्व उवाच

१.१६२.२एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता
स तु राजा पुनर्भूमौ तत्रैव निपपात ह

१.१६२.३अमात्यः सानुयात्रस्तु तं ददर्श महावने
क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम्

१.१६२.४तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ
बभूव सोऽस्य सचिवः संप्रदीप्त इवाग्निना

१.१६२.५त्वरया चोपसंगम्य स्नेहादागतसंभ्रमः
तं समुत्थापयामास नृपतिं काममोहितम्

१.१६२.६भूतलाद्भूमिपालेशं पितेव पतितं सुतम्
प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च

१.१६२.७अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः
उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम्
मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ

१.१६२.८क्षुत्पिपासापरिश्रान्तं तर्कयामास तं नृपम्
पतितं पातनं संख्ये शात्रवाणां महीतले

१.१६२.९वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत्
अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना

१.१६२.१०ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः
सर्वं विसर्जयामास तमेकं सचिवं विना

१.१६२.११ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम्
स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत्

१.१६२.१२ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृताञ्जलिः
आरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ

१.१६२.१३जगाम मनसा चैव वसिष्ठमृषिसत्तमम्
पुरोहितममित्रघ्नस्तदा संवरणो नृपः

१.१६२.१४नक्तंदिनमथैकस्थे स्थिते तस्मिञ्जनाधिपे
अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि

१.१६२.१५स विदित्वैव नृपतिं तपत्या हृतमानसम्
दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः

१.१६२.१६तथा तु नियतात्मानं स तं नृपतिसत्तमम्
आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया

१.१६२.१७स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः
ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः

१.१६२.१८सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः
वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत्

१.१६२.१९तमुवाच महातेजा विवस्वान्मुनिसत्तमम्
महर्षे स्वागतं तेऽस्तु कथयस्व यथेच्छसि