१. आदिपर्व
१.१६१.१गन्धर्व उवाच

१.१६१.२अथ तस्यामदृश्यायां नृपतिः काममोहितः
पातनः शत्रुसंघानां पपात धरणीतले

१.१६१.३तस्मिन्निपतिते भूमावथ सा चारुहासिनी
पुनः पीनायतश्रोणी दर्शयामास तं नृपम्

१.१६१.४अथाबभाषे कल्याणी वाचा मधुरया नृपम्
तं कुरूणां कुलकरं कामाभिहतचेतसम्

१.१६१.५उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदम
मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ

१.१६१.६एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा
ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम्

१.१६१.७अथ तामसितापाङ्गीमाबभाषे नराधिपः
मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा

१.१६१.८साधु मामसितापाङ्गे कामार्तं मत्तकाशिनि
भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम्

१.१६१.९त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः
कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति

१.१६१.१०ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना
सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने

१.१६१.११त्वय्यधीना हि मे प्राणाः किंनरोद्गीतभाषिणि
चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने

१.१६१.१२न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना
तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने

१.१६१.१३भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसि
त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि

१.१६१.१४गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते

१.१६१.१५तपत्युवाच

१.१६१.१६नाहमीशात्मनो राजन्कन्या पितृमती ह्यहम्
मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम

१.१६१.१७यथा हि ते मया प्राणाः संगृहीता नरेश्वर
दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः

१.१६१.१८न चाहमीशा देहस्य तस्मान्नृपतिसत्तम
समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः

१.१६१.१९का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम्
कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम्

१.१६१.२०तस्मादेवंगते काले याचस्व पितरं मम
आदित्यं प्रणिपातेन तपसा नियमेन च

१.१६१.२१स चेत्कामयते दातुं तव मामरिमर्दन
भविष्याम्यथ ते राजन्सततं वशवर्तिनी

१.१६१.२२अहं हि तपती नाम सावित्र्यवरजा सुता
अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ