१. आदिपर्व
१.१६४.१वैशंपायन उवाच

१.१६४.२स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ
अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ

१.१६४.३उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः
जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात्

१.१६४.४वसिष्ठ इति यस्यैतदृषेर्नाम त्वयेरितम्
एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे

१.१६४.५य एष गन्धर्वपते पूर्वेषां नः पुरोहितः
आसीदेतन्ममाचक्ष्व क एष भगवानृषिः

१.१६४.६गन्धर्व उवाच

१.१६४.७तपसा निर्जितौ शश्वदजेयावमरैरपि
कामक्रोधावुभौ यस्य चरणौ संववाहतुः

१.१६४.८यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः
विश्वामित्रापराधेन धारयन्मन्युमुत्तमम्

१.१६४.९पुत्रव्यसनसंतप्तः शक्तिमानपि यः प्रभुः
विश्वामित्रविनाशाय न मेने कर्म दारुणम्

१.१६४.१०मृतांश्च पुनराहर्तुं यः स पुत्रान्यमक्षयात्
कृतान्तं नातिचक्राम वेलामिव महोदधिः

१.१६४.११यं प्राप्य विजितात्मानं महात्मानं नराधिपाः
इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम्

१.१६४.१२पुरोहितवरं प्राप्य वसिष्ठमृषिसत्तमम्
ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन

१.१६४.१३स हि तान्याजयामास सर्वान्नृपतिसत्तमान्
ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान्

१.१६४.१४तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः
ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम्

१.१६४.१५क्षत्रियेण हि जातेन पृथिवीं जेतुमिच्छता
पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये

१.१६४.१६महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम्
तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः