१.१६५.१अर्जुन उवाच
१.१६५.२किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः
वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत्
१.१६५.३गन्धर्व उवाच
१.१६५.४इदं वासिष्ठमाख्यानं पुराणं परिचक्षते
पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे
१.१६५.५कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ
गाधीति विश्रुतो लोके सत्यधर्मपरायणः
१.१६५.६तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः
विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः
१.१६५.७स चचार सहामात्यो मृगयां गहने वने
मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु
१.१६५.८व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः
आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति
१.१६५.९तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः
विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया
१.१६५.१०पाद्यार्घ्याचमनीयेन स्वागतेन च भारत
तथैव प्रतिजग्राह वन्येन हविषा तथा
१.१६५.११तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः
उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः
१.१६५.१२ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च
षड्रसं चामृतरसं रसायनमनुत्तमम्
१.१६५.१३भोजनीयानि पेयानि भक्ष्याणि विविधानि च
लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन
१.१६५.१४तैः कामैः सर्वसंपूर्णैः पूजितः स महीपतिः
सामात्यः सबलश्चैव तुतोष स भृशं नृपः
१.१६५.१५षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम्
मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम्
१.१६५.१६सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम्
पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम्
१.१६५.१७अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम्
अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा
१.१६५.१८अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः
नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने
१.१६५.१९वसिष्ठ उवाच
१.१६५.२०देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी
अदेया नन्दिनीयं मे राज्येनापि तवानघ
१.१६५.२१विश्वामित्र उवाच
१.१६५.२२क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः
ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु
१.१६५.२३अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम्
स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम्
१.१६५.२४वसिष्ठ उवाच
१.१६५.२५बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः
यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय
१.१६५.२६गन्धर्व उवाच
१.१६५.२७एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव
हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम्
१.१६५.२८कशादण्डप्रतिहता काल्यमाना ततस्ततः
हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी
१.१६५.२९आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी
भृशं च ताड्यमानापि न जगामाश्रमात्ततः
१.१६५.३०वसिष्ठ उवाच
१.१६५.३१शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः
बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम्
१.१६५.३२गन्धर्व उवाच
१.१६५.३३सा तु तेषां बलान्नन्दी बलानां भरतर्षभ
विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत्
१.१६५.३४गौरुवाच
१.१६५.३५पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत्
विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे
१.१६५.३६गन्धर्व उवाच
१.१६५.३७एवं तस्यां तदा पर्थ धर्षितायां महामुनिः
न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः
१.१६५.३८वसिष्ठ उवाच
१.१६५.३९क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम्
क्षमा मां भजते तस्माद्गम्यतां यदि रोचते
१.१६५.४०गौरुवाच
१.१६५.४१किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे
अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात्
१.१६५.४२वसिष्ठ उवाच
१.१६५.४३न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते
दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात्
१.१६५.४४गन्धर्व उवाच
१.१६५.४५स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी
ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना
१.१६५.४६क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना
विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः
१.१६५.४७कशाग्रदण्डाभिहता काल्यमाना ततस्ततः
क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे
१.१६५.४८आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ
अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत्
१.१६५.४९असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान्
मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता
१.१६५.५०पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा
तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह
१.१६५.५१तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा
नानावरणसंछन्नैर्नानायुधधरैस्तथा
अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः
१.१६५.५२एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः
अस्त्रवर्षेण महता काल्यमानं बलं ततः
प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः
१.१६५.५३न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा
विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ
१.१६५.५४विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम्
क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत
१.१६५.५५दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा
विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत्
१.१६५.५६धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्
बलाबलं विनिश्चित्य तप एव परं बलम्
१.१६५.५७स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम्
भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे
१.१६५.५८स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा
तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च
अपिबच्च सुतं सोममिन्द्रेण सह कौशिकः