१.१६८.१वसिष्ठ उवाच
१.१६८.२मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथंचन
नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम्
१.१६८.३राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि
स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः
१.१६८.४गन्धर्व उवाच
१.१६८.५तमापतन्तं संप्रेक्ष्य वसिष्ठो भगवानृषिः
वारयामास तेजस्वी हुंकरेणैव भारत
१.१६८.६मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा
मोक्षयामास वै घोराद्राक्षसाद्राजसत्तमम्
१.१६८.७स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा
ग्रस्त आसीद्गृहेणेव पर्वकाले दिवाकरः
१.१६८.८रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत्
तेजसा रञ्जयामास संध्याभ्रमिव भास्करः
१.१६८.९प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः
उवाच नृपतिः काले वसिष्ठमृषिसत्तमम्
१.१६८.१०सौदासोऽहं महाभाग याज्यस्ते द्विजसत्तम
अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते
१.१६८.११वसिष्ठ उवाच
१.१६८.१२वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत्
ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदाचन
१.१६८.१३राजोवाच
१.१६८.१४नावमंस्याम्यहं ब्रह्मन्कदाचिद्ब्राह्मणर्षभान्
त्वन्निदेशे स्थितः शश्वत्पुजयिष्याम्यहं द्विजान्
१.१६८.१५इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम
तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर
१.१६८.१६अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि
शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये
१.१६८.१७गन्धर्व उवाच
१.१६८.१८ददानीत्येव तं तत्र राजानं प्रत्युवाच ह
वसिष्ठः परमेष्वासं सत्यसंधो द्विजोत्तमः
१.१६८.१९ततः प्रतिययौ काले वसिष्ठसहितोऽनघ
ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः
१.१६८.२०तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा
विपाप्मानं महात्मानं दिवौकस इवेश्वरम्
१.१६८.२१अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम्
विवेश सहितस्तेन वसिष्ठेन महात्मना
१.१६८.२२ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः
पुष्येण सहितं काले दिवाकरमिवोदितम्
१.१६८.२३स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः
अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः
१.१६८.२४संसिक्तमृष्टपन्थानं पताकोच्छ्रयभूषितम्
मनः प्रह्लादयामासा तस्य तत्पुरमुत्तमम्
१.१६८.२५तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन
अशोभत तदा तेन शक्रेणेवामरावती
१.१६८.२६ततः प्रविष्टे राजेन्द्रे तस्मिन्राजनि तां पुरीम्
तस्य राज्ञोऽऽज्ञया देवी वसिष्ठमुपचक्रमे
१.१६८.२७ऋतावथ महर्षिः स संबभूव तया सह
देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः
१.१६८.२८अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः
राज्ञाभिवादितस्तेन जगाम पुनराश्रमम्
१.१६८.२९दीर्घकालधृतं गर्भं सुषाव न तु तं यदा
साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम्
१.१६८.३०द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ
अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत्