१. आदिपर्व
१.१६९.१गन्धर्व उवाच

१.१६९.२आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत
शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम्

१.१६९.३जातकर्मादिकास्तस्य क्रियाः स मुनिपुंगवः
पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम्

१.१६९.४परासुश्च यतस्तेन वसिष्ठः स्थापितस्तदा
गर्भस्थेन ततो लोके पराशर इति स्मृतः

१.१६९.५अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा
जन्मप्रभृति तस्मिंश्च पितरीव व्यवर्तत

१.१६९.६स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत
मातुः समक्षं कौन्तेय अदृश्यन्त्याः परंतप

१.१६९.७तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः
अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वन्ती तमुवाच ह

१.१६९.८मा तात तात तातेति न ते तातो महामुनिः
रक्षसा भक्षितस्तात तव तातो वनान्तरे

१.१६९.९मन्यसे यं तु तातेति नैष तातस्तवानघ
आर्यस्त्वेष पिता तस्य पितुस्तव महात्मनः

१.१६९.१०स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः
सर्वलोकविनाशाय मतिं चक्रे महामनाः

१.१६९.११तं तथा निश्चितात्मानं महात्मानं महातपाः
वसिष्ठो वारयामास हेतुना येन तच्छृणु

१.१६९.१२वसिष्ठ उवाच

१.१६९.१३कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ
याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः

१.१६९.१४स तानग्रभुजस्तात धान्येन च धनेन च
सोमान्ते तर्पयामास विपुलेन विशां पतिः

१.१६९.१५तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कदाचन
बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम्

१.१६९.१६ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह
याचिष्णवोऽभिजग्मुस्तांस्तात भार्गवसत्तमान्

१.१६९.१७भूमौ तु निदधुः केचिद्भृगवो धनमक्षयम्
ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम्

१.१६९.१८भृगवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम्
क्षत्रियाणां तदा तात कारणान्तरदर्शनात्

१.१६९.१९ततो महीतलं तात क्षत्रियेण यदृच्छया
खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि
तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः

१.१६९.२०अवमन्य ततः कोपाद्भृगूंस्ताञ्शरणागतान्
निजघ्नुस्ते महेष्वासाः सर्वांस्तान्निशितैः शरैः
आ गर्भादनुकृन्तन्तश्चेरुश्चैव वसुंधराम्

१.१६९.२१तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा
भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे

१.१६९.२२तासामन्यतमा गर्भं भयाद्दाधार तैजसम्
ऊरुणैकेन वामोरूर्भर्तुः कुलविवृद्धये
ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा

१.१६९.२३अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह
मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः
ततश्चक्षुर्वियुक्तास्ते गिरिदुर्गेषु बभ्रमुः

१.१६९.२४ततस्ते मोघसंकल्पा भयार्ताः क्षत्रियर्षभाः
ब्रह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम्

१.१६९.२५ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः
ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः

१.१६९.२६भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम्
उपारम्य च गच्छेम सहिताः पापकर्मणः

१.१६९.२७सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुमर्हसि
पुनर्दृष्टिप्रदानेन राज्ञः संत्रातुमर्हसि