१.१७२.१गन्धर्व उवाच
१.१७२.२एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना
न्ययच्छदात्मनः कोपं सर्वलोकपराभवात्
१.१७२.३ईजे च स महातेजाः सर्ववेदविदां वरः
ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः
१.१७२.४ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः
ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन्
१.१७२.५न हि तं वारयामास वसिष्ठो रक्षसां वधात्
द्वितीयामस्य मा भाङ्क्षं प्रतिज्ञामिति निश्चयात्
१.१७२.६त्रयाणां पावकानां स सत्रे तस्मिन्महामुनिः
आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः
१.१७२.७तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः
तद्विदीपितमाकाशं सूर्येणेव घनात्यये
१.१७२.८तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे
तेजसा दिवि दीप्यन्तं द्वितीयमिव भास्करम्
१.१७२.९ततः परमदुष्प्रापमन्यैरृषिरुदारधीः
समापिपयिषुः सत्रं तमत्रिः समुपागमत्
१.१७२.१०तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुम्
उपाजग्मुरमित्रघ्न रक्षसां जीवितेप्सया
१.१७२.११पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ
उवाचेदं वचः पार्थ पराशरमरिंदमम्
१.१७२.१२कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक
अजानतामदोषाणां सर्वेषां रक्षसां वधात्
१.१७२.१३प्रजोच्छेदमिमं मह्यं सर्वं सोमपसत्तम
अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर
राजा कल्माषपादश्च दिवमारोढुमिच्छति
१.१७२.१४ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः
ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः
सर्वमेतद्वसिष्ठस्य विदितं वै महामुने
१.१७२.१५रक्षसां च समुच्छेद एष तात तपस्विनाम्
निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन
स सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते
१.१७२.१६एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता
तदा समापयामास सत्रं शाक्तिः पराशरः
१.१७२.१७सर्वराक्षससत्राय संभृतं पावकं मुनिः
उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने
१.१७२.१८स तत्राद्यापि रक्षांसि वृक्षानश्मान एव च
भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि