१. आदिपर्व
१.१७१.१और्व उवाच

१.१७१.२उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा
सर्वलोकविनाशाय न सा मे वितथा भवेत्

१.१७१.३वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे
अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम्

१.१७१.४यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति
नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम्

१.१७१.५अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता
स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः

१.१७१.६अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा
आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे

१.१७१.७सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः
आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत्

१.१७१.८आपूर्णकोशाः किल मे मातरः पितरस्तथा
भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम्

१.१७१.९तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत
यदा तदा दधारेयमूरुणैकेन मां शुभा

१.१७१.१०प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते
तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते

१.१७१.११यदा तु प्रतिषेद्धारं पापो न लभते क्वचित्
तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु

१.१७१.१२जानन्नपि च यः पापं शक्तिमान्न नियच्छति
ईशः सन्सोऽपि तेनैव कर्मणा संप्रयुज्यते

१.१७१.१३राजभिश्चेश्वरैश्चैव यदि वै पितरो मम
शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितम्

१.१७१.१४अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन्
भवतां तु वचो नाहमलं समतिवर्तितुम्

१.१७१.१५मम चापि भवेदेतदीश्वरस्य सतो महत्
उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम्

१.१७१.१६यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति
दहेदेष च मामेव निगृहीतः स्वतेजसा

१.१७१.१७भवतां च विजानामि सर्वलोकहितेप्सुताम्
तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः

१.१७१.१८पितर ऊचुः

१.१७१.१९य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः

१.१७१.२०आपोमयाः सर्वरसाः सर्वमापोमयं जगत्
तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम

१.१७१.२१अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः

१.१७१.२२एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति
न चैव सामरा लोका गमिष्यन्ति पराभवम्

१.१७१.२३वसिष्ठ उवाच

१.१७१.२४ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये
उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ

१.१७१.२५महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः
तमग्निमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ

१.१७१.२६तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि
पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर