१. आदिपर्व
१.१७४.१अर्जुन उवाच

१.१७४.२अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित्
पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव

१.१७४.३गन्धर्व उवाच

१.१७४.४यवीयान्देवलस्यैष वने भ्राता तपस्यति
धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ

१.१७४.५वैशंपायन उवाच

१.१७४.६ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि
गन्धर्वाय तदा प्रीतो वचनं चेदमब्रवीत्

१.१७४.७त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम
कर्मकाले ग्रहीष्यामि स्वस्ति तेऽस्त्विति चाब्रवीत्

१.१७४.८तेऽन्योन्यमभिसंपूज्य गन्धर्वः पाण्डवाश्च ह
रम्याद्भागीरथीकच्छाद्यथाकामं प्रतस्थिरे

१.१७४.९तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते
तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत

१.१७४.१०तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः
पाद्येन फलमूलेन पौरोहित्येन चैव ह

१.१७४.११ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः
तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम्

१.१७४.१२मातृषष्ठास्तु ते तेन गुरुणा संगतास्तदा
नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः

१.१७४.१३स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः
तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः

१.१७४.१४वीरांस्तु स हि तान्मेने प्राप्तराज्यान्स्वधर्मतः
बुद्धिवीर्यबलोत्साहैर्युक्तान्देवानिवापरान्

१.१७४.१५कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः
मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम्