१.१७५.१वैशंपायन उवाच
१.१७५.२ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः
प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम्
१.१७५.३ते प्रयाता नरव्याघ्रा मात्रा सह परंतपाः
ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून्
१.१७५.४तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः
क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह
१.१७५.५युधिष्ठिर उवाच
१.१७५.६आगतानेकचक्रायाः सोदर्यान्देवदर्शिनः
भवन्तो हि विजानन्तु सहितान्मातृचारिणः
१.१७५.७ब्राह्मणा ऊचुः
१.१७५.८गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम्
स्वयंवरो महांस्तत्र भविता सुमहाधनः
१.१७५.९एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः
तत्र ह्यद्भुतसंकाशो भविता सुमहोत्सवः
१.१७५.१०यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः
वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा
१.१७५.११दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः
१.१७५.१२यो जातः कवची खड्गी सशरः सशरासनः
सुसमिद्धे महाबाहुः पावके पावकप्रभः
१.१७५.१३स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति
१.१७५.१४तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम्
गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम्
१.१७५.१५राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः
स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः
१.१७५.१६तरुणा दर्शनीयाश्च नानादेशसमागताः
महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः
१.१७५.१७ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः
प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः
१.१७५.१८प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम्
अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम्
१.१७५.१९नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः
नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः
१.१७५.२०एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च
सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ
१.१७५.२१दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान्
समीक्ष्य कृष्णा वरयेत्संगत्यान्यतमं वरम्
१.१७५.२२अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः
नियुध्यमानो विजयेत्संगत्या द्रविणं बहु
१.१७५.२३युधिष्ठिर उवाच
१.१७५.२४परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम्
भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम्