१. आदिपर्व
१.१८७.१वैशंपायन उवाच

१.१८७.२तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम्
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः

१.१८७.३पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम्
कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत

१.१८७.४वैश्यान्वा गुणसंपन्नानुत वा शूद्रयोनिजान्
मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम्

१.१८७.५कृष्णाहेतोरनुप्राप्तान्दिवः संदर्शनार्थिनः
ब्रवीतु नो भवान्सत्यं संदेहो ह्यत्र नो महान्

१.१८७.६अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत्
अपि नो भागधेयानि शुभानि स्युः परंतप

१.१८७.७कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु

१.१८७.८श्रुत्वा ह्यमरसंकाश तव वाक्यमरिंदम
ध्रुवं विवाहकरणमास्थास्यामि विधानतः

१.१८७.९युधिष्ठिर उवाच

१.१८७.१०मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम्

१.१८७.११वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः
ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ
याभ्यां तव सुता राजन्निर्जिता राजसंसदि

१.१८७.१२यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता
व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ
पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता

१.१८७.१३इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते
भवान्हि गुरुरस्माकं परमं च परायणम्

१.१८७.१४वैशंपायन उवाच

१.१८७.१५ततः स द्रुपदो राजा हर्षव्याकुललोचनः
प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम्

१.१८७.१६यत्नेन तु स तं हर्षं संनिगृह्य परंतपः
अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम्

१.१८७.१७पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा
स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः

१.१८७.१८तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम्
विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम्

१.१८७.१९आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम्
प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः

१.१८७.२०ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि
यमौ च राज्ञा संदिष्टौ विविशुर्भवनं महत्

१.१८७.२१तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः
प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान्

१.१८७.२२गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम्

१.१८७.२३ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः
ममापि दारसंबन्धः कार्यस्तावद्विशां पते

१.१८७.२४द्रुपद उवाच

१.१८७.२५भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश

१.१८७.२६युधिष्ठिर उवाच

१.१८७.२७सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति
एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते

१.१८७.२८अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः
पार्थेन विजिता चैषा रत्नभूता च ते सुता

१.१८७.२९एष नः समयो राजन्रत्नस्य सहभोजनम्
न च तं हातुमिच्छामः समयं राजसत्तम

१.१८७.३०सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम्

१.१८७.३१द्रुपद उवाच

१.१८७.३२एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन
नैकस्या बहवः पुंसो विधीयन्ते कदाचन

१.१८७.३३लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः
कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी

१.१८७.३४युधिष्ठिर उवाच

१.१८७.३५सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम्
पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे

१.१८७.३६न मे वागनृतं प्राह नाधर्मे धीयते मतिः
एवं चैव वदत्यम्बा मम चैव मनोगतम्

१.१८७.३७एष धर्मो ध्रुवो राजंश्चरैनमविचारयन्
मा च तेऽत्र विशङ्का भूत्कथंचिदपि पार्थिव

१.१८७.३८द्रुपद उवाच

१.१८७.३९त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः
कथयन्त्वितिकर्तव्यं श्वः काले करवामहे

१.१८७.४०वैशंपायन उवाच

१.१८७.४१ते समेत्य ततः सर्वे कथयन्ति स्म भारत
अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया