१. आदिपर्व
१.१८६.१दूत उवाच

१.१८६.२जन्यार्थमन्नं द्रुपदेन राज्ञा; विवाहहेतोरुपसंस्कृतं च
तदाप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम्

१.१८६.३इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः
एतान्समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत्

१.१८६.४वैशंपायन उवाच

१.१८६.५ततः प्रयाताः कुरुपुंगवास्ते; पुरोहितं तं प्रथमं प्रयाप्य
आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते

१.१८६.६श्रुत्वा तु वाक्यानि पुरोहितस्य; यान्युक्तवान्भारत धर्मराजः
जिज्ञासयैवाथ कुरूत्तमानां; द्रव्याण्यनेकान्युपसंजहार

१.१८६.७फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि
गाश्चैव राजन्नथ चैव रज्जू;र्द्रव्याणि चान्यानि कृषीनिमित्तम्

१.१८६.८अन्येषु शिल्पेषु च यान्यपि स्युः; सर्वाणि कॢप्तान्यखिलेन तत्र
क्रीडानिमित्तानि च यानि तानि; सर्वाणि तत्रोपजहार राजा

१.१८६.९रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तोऽश्वरथाश्च चित्राः
धनूंषि चाग्र्याणि शराश्च मुख्याः; शक्त्यृष्टयः काञ्चनभूषिताश्च

१.१८६.१०प्रासा भुशुण्ड्यश्च परश्वधाश्च; सांग्रामिकं चैव तथैव सर्वम्
शय्यासनान्युत्तमसंस्कृतानि; तथैव चासन्विविधानि तत्र

१.१८६.११कुन्ती तु कृष्णां परिगृह्य साध्वी;मन्तःपुरं द्रुपदस्याविवेष
स्त्रियश्च तां कौरवराजपत्नीं; प्रत्यर्चयां चक्रुरदीनसत्त्वाः

१.१८६.१२तान्सिंहविक्रान्तगतीनवेक्ष्य; महर्षभाक्षानजिनोत्तरीयान्
गूढोत्तरांसान्भुजगेन्द्रभोग;प्रलम्बबाहून्पुरुषप्रवीरान्

१.१८६.१३राजा च राज्ञः सचिवाश्च सर्वे; पुत्राश्च राज्ञः सुहृदस्तथैव
प्रेष्याश्च सर्वे निखिलेन राज;न्हर्षं समापेतुरतीव तत्र

१.१८६.१४ते तत्र वीराः परमासनेषु; सपादपीठेष्वविशङ्कमानाः
यथानुपूर्व्या विविशुर्नराग्र्या;स्तदा महार्हेषु न विस्मयन्तः

१.१८६.१५उच्चावचं पार्थिवभोजनीयं; पात्रीषु जाम्बूनदराजतीषु
दासाश्च दास्यश्च सुमृष्टवेषाः; भोजापकाश्चाप्युपजह्रुरन्नम्

१.१८६.१६ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं प्रतीताः
उत्क्रम्य सर्वाणि वसूनि तत्र; सांग्रामिकान्याविविशुर्नृवीराः

१.१८६.१७तल्लक्षयित्वा द्रुपदस्य पुत्रो; राजा च सर्वैः सह मन्त्रिमुख्यैः
समर्चयामासुरुपेत्य हृष्टाः; कुन्तीसुतान्पार्थिवपुत्रपौत्रान्