१.१८९.१व्यास उवाच
१.१८९.२पुरा वै नैमिषारण्ये देवाः सत्रमुपासते
तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा
१.१८९.३ततो यमो दीक्षितस्तत्र राज;न्नामारयत्किंचिदपि प्रजाभ्यः
ततः प्रजास्ता बहुला बभूवुः; कालातिपातान्मरणात्प्रहीणाः
१.१८९.४ततस्तु शक्रो वरुणः कुबेरः; साध्या रुद्रा वसवश्चाश्विनौ च
प्रणेतारं भुवनस्य प्रजापतिं; समाजग्मुस्तत्र देवास्तथान्ये
१.१८९.५ततोऽब्रुवँल्लोकगुरुं समेता; भयं नस्तीव्रं मानुषाणां विवृद्ध्या
तस्माद्भयादुद्विजन्तः सुखेप्सवः; प्रयाम सर्वे शरणं भवन्तम्
१.१८९.६ब्रह्मोवाच
१.१८९.७किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः
मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हिचित्
१.१८९.८देवा ऊचुः
१.१८९.९मर्त्या ह्यमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन
अविशेषादुद्विजन्तो विशेषार्थमिहागताः
१.१८९.१०ब्रह्मोवाच
१.१८९.११वैवस्वतो व्यापृतः सत्रहेतो;स्तेन त्विमे न म्रियन्ते मनुष्याः
तस्मिन्नेकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्तकालः
१.१८९.१२वैवस्वतस्यापि तनुर्विभूता; वीर्येण युष्माकमुत प्रयुक्ता
सैषामन्तो भविता ह्यन्तकाले; तनुर्हि वीर्यं भविता नरेषु
१.१८९.१३व्यास उवाच
१.१८९.१४ततस्तु ते पूर्वजदेववाक्यं; श्रुत्वा देवा यत्र देवा यजन्ते
समासीनास्ते समेता महाबला; भागीरथ्यां ददृशुः पुण्डरीकम्
१.१८९.१५दृष्ट्वा च तद्विस्मितास्ते बभूवु;स्तेषामिन्द्रस्तत्र शूरो जगाम
सोऽपश्यद्योषामथ पावकप्रभां; यत्र गङ्गा सततं संप्रसूता
१.१८९.१६सा तत्र योषा रुदती जलार्थिनी; गङ्गां देवीं व्यवगाह्यावतिष्ठत्
तस्याश्रुबिन्दुः पतितो जले वै; तत्पद्ममासीदथ तत्र काञ्चनम्
१.१८९.१७तदद्भुतं प्रेक्ष्य वज्री तदानी;मपृच्छत्तां योषितमन्तिकाद्वै
का त्वं कथं रोदिषि कस्य हेतो;र्वाक्यं तथ्यं कामयेह ब्रवीहि
१.१८९.१८स्त्र्युवाच
१.१८९.१९त्वं वेत्स्यसे मामिह यास्मि शक्र; यदर्थं चाहं रोदिमि मन्दभाग्या
आगच्छ राजन्पुरतोऽहं गमिष्ये; द्रष्टासि तद्रोदिमि यत्कृतेऽहम्
१.१८९.२०व्यास उवाच
१.१८९.२१तां गच्छन्तीमन्वगच्छत्तदानीं; सोऽपश्यदारात्तरुणं दर्शनीयम्
सिंहासनस्थं युवतीसहायं; क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि
१.१८९.२२तमब्रवीद्देवराजो ममेदं; त्वं विद्धि विश्वं भुवनं वशे स्थितम्
ईशोऽहमस्मीति समन्युरब्रवी;द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम्
१.१८९.२३क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो; जहास शक्रं च शनैरुदैक्षत
संस्तम्भितोऽभूदथ देवराज;स्तेनेक्षितः स्थाणुरिवावतस्थे
१.१८९.२४यदा तु पर्याप्तमिहास्य क्रीडया; तदा देवीं रुदतीं तामुवाच
आनीयतामेष यतोऽहमारा;न्मैनं दर्पः पुनरप्याविशेत
१.१८९.२५ततः शक्रः स्पृष्टमात्रस्तया तु; स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम्
तमब्रवीद्भगवानुग्रतेजा; मैवं पुनः शक्र कृथाः कथंचित्
१.१८९.२६विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम्
विवृत्य चैवाविश मध्यमस्य; यत्रासते त्वद्विधाः सूर्यभासः
१.१८९.२७स तद्विवृत्य शिखरं महागिरे;स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श
स तानभिप्रेक्ष्य बभूव दुःखितः; कच्चिन्नाहं भविता वै यथेमे
१.१८९.२८ततो देवो गिरिशो वज्रपाणिं; विवृत्य नेत्रे कुपितोऽभ्युवाच
दरीमेतां प्रविश त्वं शतक्रतो; यन्मां बाल्यादवमंस्थाः पुरस्तात्
१.१८९.२९उक्तस्त्वेवं विभुना देवराजः; प्रवेपमानो भृशमेवाभिषङ्गात्
स्रस्तैरङ्गैरनिलेनेव नुन्न;मश्वत्थपत्रं गिरिराजमूर्ध्नि
१.१८९.३०स प्राञ्जलिर्विनतेनाननेन; प्रवेपमानः सहसैवमुक्तः
उवाच चेदं बहुरूपमुग्रं; द्रष्टा शेषस्य भगवंस्त्वं भवाद्य
१.१८९.३१तमब्रवीदुग्रधन्वा प्रहस्य; नैवंशीलाः शेषमिहाप्नुवन्ति
एतेऽप्येवं भवितारः पुरस्ता;त्तस्मादेतां दरिमाविश्य शेध्वम्
१.१८९.३२शेषोऽप्येवं भविता वो न संशयो; योनिं सर्वे मानुषीमाविशध्वम्
तत्र यूयं कर्म कृत्वाविषह्यं; बहूनन्यान्निधनं प्रापयित्वा
१.१८९.३३आगन्तारः पुनरेवेन्द्रलोकं; स्वकर्मणा पूर्वजितं महार्हम्
सर्वं मया भाषितमेतदेवं; कर्तव्यमन्यद्विविधार्थवच्च
१.१८९.३४पूर्वेन्द्रा ऊचुः
१.१८९.३५गमिष्यामो मानुषं देवलोका;द्दुराधरो विहितो यत्र मोक्षः
देवास्त्वस्मानादधीरञ्जनन्यां; धर्मो वायुर्मघवानश्विनौ च
१.१८९.३६व्यास उवाच
१.१८९.३७एतच्छ्रुत्वा वज्रपाणिर्वचस्तु; देवश्रेष्ठं पुनरेवेदमाह
वीर्येणाहं पुरुषं कार्यहेतो;र्दद्यामेषां पञ्चमं मत्प्रसूतम्
१.१८९.३८तेषां कामं भगवानुग्रधन्वा; प्रादादिष्टं सन्निसर्गाद्यथोक्तम्
तां चाप्येषां योषितं लोककान्तां; श्रियं भार्यां व्यदधान्मानुषेषु
१.१८९.३९तैरेव सार्धं तु ततः स देवो; जगाम नारायणमप्रमेयम्
स चापि तद्व्यदधात्सर्वमेव; ततः सर्वे संबभूवुर्धरण्याम्
१.१८९.४०स चापि केशौ हरिरुद्बबर्ह; शुक्लमेकमपरं चापि कृष्णम्
तौ चापि केशौ विशतां यदूनां; कुले स्त्रियौ रोहिणीं देवकीं च
तयोरेको बलदेवो बभूव; कृष्णो द्वितीयः केशवः संबभूव
१.१८९.४१ये ते पूर्वं शक्ररूपा निरुद्धा;स्तस्यां दर्यां पर्वतस्योत्तरस्य
इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची
१.१८९.४२एवमेते पाण्डवाः संबभूवु;र्ये ते राजन्पूर्वमिन्द्रा बभूवुः
लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा; भार्या यैषा द्रौपदी दिव्यरूपा
१.१८९.४३कथं हि स्त्री कर्मणोऽन्ते महीतला;त्समुत्तिष्ठेदन्यतो दैवयोगात्
यस्या रूपं सोमसूर्यप्रकाशं; गन्धश्चाग्र्यः क्रोशमात्रात्प्रवाति
१.१८९.४४इदं चान्यत्प्रीतिपूर्वं नरेन्द्र; ददामि ते वरमत्यद्भुतं च
दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं; पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान्
१.१८९.४५वैशंपायन उवाच
१.१८९.४६ततो व्यासः परमोदारकर्मा; शुचिर्विप्रस्तपसा तस्य राज्ञः
चक्षुर्दिव्यं प्रददौ तान्स सर्वा;न्राजापश्यत्पूर्वदेहैर्यथावत्
१.१८९.४७ततो दिव्यान्हेमकिरीटमालिनः; शक्रप्रख्यान्पावकादित्यवर्णान्
बद्धापीडांश्चारुरूपांश्च यूनो; व्यूढोरस्कांस्तालमात्रान्ददर्श
१.१८९.४८दिव्यैर्वस्त्रैररजोभिः सुवर्णै;र्माल्यैश्चाग्र्यैः शोभमानानतीव
साक्षात्त्र्यक्षान्वसवो वाथ दिव्या;नादित्यान्वा सर्वगुणोपपन्नान्
तान्पूर्वेन्द्रानेवमीक्ष्याभिरूपा;न्प्रीतो राजा द्रुपदो विस्मितश्च
१.१८९.४९दिव्यां मायां तामवाप्याप्रमेयां; तां चैवाग्र्यां श्रियमिव रूपिणीं च
योग्यां तेषां रूपतेजोयशोभिः; पत्नीमृद्धां दृष्टवान्पार्थिवेन्द्रः
१.१८९.५०स तद्दृष्ट्वा महदाश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य
नैतच्चित्रं परमर्षे त्वयीति; प्रसन्नचेताः स उवाच चैनम्
१.१८९.५१व्यास उवाच
१.१८९.५२आसीत्तपोवने काचिदृषेः कन्या महात्मनः
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती
१.१८९.५३तोषयामास तपसा सा किलोग्रेण शंकरम्
तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम्
१.१८९.५४सैवमुक्ताब्रवीत्कन्या देवं वरदमीश्वरम्
पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः
१.१८९.५५ददौ तस्यै स देवेशस्तं वरं प्रीतिमांस्तदा
पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शंकरः
१.१८९.५६सा प्रसादयती देवमिदं भूयोऽभ्यभाषत
एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति वै तदा
तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः
१.१८९.५७पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः
तत्तथा भविता भद्रे तव तद्भद्रमस्तु ते
देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति
१.१८९.५८द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता
१.१८९.५९स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे
सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता
१.१८९.६०सैषा देवी रुचिरा देवजुष्टा; पञ्चानामेका स्वकृतेन कर्मणा
सृष्टा स्वयं देवपत्नी स्वयम्भुवा; श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व