१. आदिपर्व
१.१९०.१द्रुपद उवाच

१.१९०.२अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यतितं कार्यमेतत्
न वै शक्यं विहितस्यापयातुं; तदेवेदमुपपन्नं विधानम्

१.१९०.३दिष्टस्य ग्रन्थिरनिवर्तनीयः; स्वकर्मणा विहितं नेह किंचित्
कृतं निमित्तं हि वरैकहेतो;स्तदेवेदमुपपन्नं बहूनाम्

१.१९०.४यथैव कृष्णोक्तवती पुरस्ता;न्नैकान्पतीन्मे भगवान्ददातु
स चाप्येवं वरमित्यब्रवीत्तां; देवो हि वेद परमं यदत्र

१.१९०.५यदि वायं विहितः शंकरेण; धर्मोऽधर्मो वा नात्र ममापराधः
गृह्णन्त्विमे विधिवत्पाणिमस्या; यथोपजोषं विहितैषां हि कृष्णा

१.१९०.६वैशंपायन उवाच

१.१९०.७ततोऽब्रवीद्भगवान्धर्मराज;मद्य पुण्याहमुत पाण्डवेय
अद्य पौष्यं योगमुपैति चन्द्रमाः; पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम्

१.१९०.८ततो राजा यज्ञसेनः सपुत्रो; जन्यार्थ युक्तं बहु तत्तदग्र्यम्
समानयामास सुतां च कृष्णा;माप्लाव्य रत्नैर्बहुभिर्विभूष्य

१.१९०.९ततः सर्वे सुहृदस्तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश्च
द्रष्टुं विवाहं परमप्रतीता; द्विजाश्च पौराश्च यथाप्रधानाः

१.१९०.१०तत्तस्य वेश्मार्थिजनोपशोभितं; विकीर्णपद्मोत्पलभूषिताजिरम्
महार्हरत्नौघविचित्रमाबभौ; दिवं यथा निर्मलतारकाचितम्

१.१९०.११ततस्तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनो युवानः
महार्हवस्त्रा वरचन्दनोक्षिताः; कृताभिषेकाः कृतमङ्गलक्रियाः

१.१९०.१२पुरोहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि प्रभो
क्रमेण सर्वे विविशुश्च तत्सदो; महर्षभा गोष्ठमिवाभिनन्दिनः

१.१९०.१३ततः समाधाय स वेदपारगो; जुहाव मन्त्रैर्ज्वलितं हुताशनम्
युधिष्ठिरं चाप्युपनीय मन्त्रवि;न्नियोजयामास सहैव कृष्णया

१.१९०.१४प्रदक्षिणं तौ प्रगृहीतपाणी; समानयामास स वेदपारगः
ततोऽभ्यनुज्ञाय तमाजिशोभिनं; पुरोहितो राजगृहाद्विनिर्ययौ

१.१९०.१५क्रमेण चानेन नराधिपात्मजा; वरस्त्रियास्ते जगृहुस्तदा करम्
अहन्यहन्युत्तमरूपधारिणो; महारथाः कौरववंशवर्धनाः

१.१९०.१६इदं च तत्राद्भुतरूपमुत्तमं; जगाद विप्रर्षिरतीतमानुषम्
महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गतेऽहनि

१.१९०.१७कृते विवाहे द्रुपदो धनं ददौ; महारथेभ्यो बहुरूपमुत्तमम्
शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीनमालिनाम्

१.१९०.१८शतं गजानामभिपद्मिनां तथा; शतं गिरीणामिव हेमशृङ्गिणाम्
तथैव दासीशतमग्र्ययौवनं; महार्हवेषाभरणाम्बरस्रजम्

१.१९०.१९पृथक्पृथक्चैव दशायुतान्वितं; धनं ददौ सौमकिरग्निसाक्षिकम्
तथैव वस्त्राणि च भूषणानि; प्रभावयुक्तानि महाधनानि

१.१९०.२०कृते विवाहे च ततः स्म पाण्डवाः; प्रभूतरत्नामुपलभ्य तां श्रियम्
विजह्रुरिन्द्रप्रतिमा महाबलाः; पुरे तु पाञ्चालनृपस्य तस्य ह