१. आदिपर्व
१.१९.१सूत उवाच

१.१९.२ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ
कद्रूश्च विनता चैव भगिन्यौ ते तपोधन

१.१९.३अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा
जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात्

१.१९.४ददृशाते तदा तत्र समुद्रं निधिमम्भसाम्
तिमिंगिलझषाकीर्णं मकरैरावृतं तथा

१.१९.५सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्
उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्

१.१९.६आकरं सर्वरत्नानामालयं वरुणस्य च
नागानामालयं रम्यमुत्तमं सरितां पतिम्

१.१९.७पातालज्वलनावासमसुराणां च बन्धनम्
भयंकरं च सत्त्वानां पयसां निधिमर्णवम्

१.१९.८शुभं दिव्यममर्त्यानाममृतस्याकरं परम्
अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्

१.१९.९घोरं जलचरारावरौद्रं भैरवनिस्वनम्
गम्भीरावर्तकलिलं सर्वभूतभयंकरम्

१.१९.१०वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम्
वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः

१.१९.११चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम्
पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्

१.१९.१२गां विन्दता भगवता गोविन्देनामितौजसा
वराहरूपिणा चान्तर्विक्षोभितजलाविलम्

१.१९.१३ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा
अनासादितगाधं च पातालतलमव्ययम्

१.१९.१४अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः
युगादिकालशयनं विष्णोरमिततेजसः

१.१९.१५वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम्
अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम्

१.१९.१६महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः
अभिसार्यमाणमनिशं ददृशाते महार्णवम्

१.१९.१७गम्भीरं तिमिमकरोग्रसंकुलं तं; गर्जन्तं जलचररावरौद्रनादैः
विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम्

१.१९.१८इत्येवं झषमकरोर्मिसंकुलं तं; गम्भीरं विकसितमम्बरप्रकाशम्
पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम्