१. आदिपर्व
१.१८.१सूत उवाच

१.१८.२एतत्ते सर्वमाख्यातममृतं मथितं यथा
यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः

१.१८.३यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत्
उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम्

१.१८.४विनतोवाच

१.१८.५श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे

१.१८.६कद्रूरुवाच

१.१८.७कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते
एहि सार्धं मया दीव्य दासीभावाय भामिनि

१.१८.८सूत उवाच

१.१८.९एवं ते समयं कृत्वा दासीभावाय वै मिथः
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह

१.१८.१०ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती
आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः

१.१८.११आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा
तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजंगमान्

१.१८.१२सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः

१.१८.१३शापमेनं तु शुश्राव स्वयमेव पितामहः
अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि

१.१८.१४सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया

१.१८.१५तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै
प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने